Book Title: Gacchachar Prakirnakam
Author(s): Vanarrishi, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 23
________________ + | कुत्सिततारको नरो भवति स बहून् पृष्ठलग्नान् जन्तुसमूहान् नद्यादौ बोलयति आत्मानमपि च बोलयतीति ॥ ३० ॥ अथो|न्मार्गपरम्परालग्नानामाचार्याणां मुनीनां च किं फलं भवति ? इत्याह उम्मग्गमग्गसंपआिण साहूण गोअमा ! नूनं । संसारो अ अणंतो होइ य सम्मग्गनासीणं ॥ ३१ ॥ उम्म० ॥ उन्मार्गा - गोशालकबो टिकनिह्नवादयस्ते तेषां मार्ग:- परम्परा तस्मिन् यद्वा उन्मार्गरूपो यो मार्गस्तस्मिन् स्थितानां 'साधूनां' सुनिवेषाभासकानां उपलक्षणत्वात्तदाचार्याणामपि हे 'गौतम !' हे इन्द्रभूते ! 'नूनं' निश्चितं 'संसारः' चतुर्गत्यात्मकः न विद्यतेऽन्तः - पर्यन्तो यस्यासावनन्तो भवति, चकारस्तद्गतानेकदुःख सूचकः, किंभूतानां - 'सन्मार्गनाशिनां' जिनोक्तपथाच्छादकानां महानिशीथोक्तमुनिचन्द्रसाधुवत् ॥ ३१ ॥ अथ कोऽपि कदाचित्प्रमादपरत्वेन न जिनोक्तक्रियां करोति परन्तु भव्यानां यथोक्तं जिनमार्ग दर्शयति स कस्मिन् मार्गे आत्मानं स्थापयति, तदूविपरीतश्च कीदृशो भवति ?, इत्याह सुद्धं सुसाहुमग्गं कहमाणो ठवह तहअपक्खंभि । अप्पाणं इयरो पुण गिहत्थधम्माओ चुक्कन्ति ॥ ३२ ॥ सुद्धं० ॥ 'शुद्धं' आज्ञाशुद्धिसंयुक्तं 'सुसाधुमार्ग' सुविहितपथं 'कथयन्' आकाङ्क्षाऽभावेन प्ररूपयन् 'स्थापयति' रक्षयति 'आत्मानं ' स्वयं, क्व ? - साधु श्रावकपक्षद्वयापेक्षया 'तृतीयपक्षे' संविग्नपाक्षिके, संविग्नानां - मोक्षाभिलाषिसुसाधूनां पाक्षिकः| साहाय्यकर्त्ता संविग्नपाक्षिकस्तस्मिन्, तस्येदं लक्षणं- "सुद्धं सुसाहुधम्मं कहेइ निंदइ य निययमायारं । सुतवस्सियाण पुरओ | होइ ग्र सधोमराइणिओ ॥ १ ॥ वंदइ न य वंदावइ किइकम्मं कुणइ कारवे नेव । अत्तट्ठा नवि दिक्खइ देइ सुसाहूण उन्मार्गगफलं संविनपाक्षिक स्व. गा. ३१-२ ५ १० १४

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88