SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ताच्छेदिनि ५, अथ स्वगच्छे पश्चानामप्यभावे परगच्छे सांभोगिके आचार्यादिक्रमेणालोचयितव्यं, सांभोगिके गच्छे| उन्मार्गगा पश्चानामप्यभावे संविग्नेऽसांभोगिके पश्चाचार्यादिक्रमेणालोचयितव्यं, संविग्नासाम्भोगिकानामप्यभाव गीतार्थपार्श्वस्थ- तमिसूरिचिसमीपे तदभावे सारूपिके संयतवेषगृहस्थे तदभावे गीतार्थपश्चात्कृते त्यक्तचारित्रवेषगृहस्थे तदभावे सम्यक्त्वभा हंगा. |१०-११ वितदेवतायां, यतो देवता महाविदेहादौ जिनानापृच्छय कथयत्यतः, तदभावे जिनप्रतिमापुरतः, तदभावे पूर्वाद्यभिमुखोऽहंतः सिद्धानभि समीक्ष्य जानन् प्रायश्चित्तविधि स्वयमेव प्रायश्चित्तं प्रतिपद्यते, एवं प्रतिपद्यमानः शुद्ध एवेति, तथा नित्यं-सदा सर्वत्र विरुद्धा कथा विकथा, तत्र स्त्रीकथा १ भक्तकथा २ देशकथा ३ राजकथा ४ मृदुकारु|णिकाकथा ५ दर्शनभेदिनीकथा ६ चारित्रभेदिनीकथा ७ रूपा सप्तधा, आद्याश्चतस्रः कण्ठ्याः , श्रोतृहृदयमार्दवजननान्मृद्वी सा चासौ पुत्रादिप्रलापप्रधानत्वात्कारुण्यवती मृदुकारुणिका, यथा-"हा पुत्त ! २ हा वच्छ ! २ मुक्कासि कहमणाहाऽहं । एवं कलुणपलावा जलंतजलणेऽज सा पडिया ॥१॥" दर्शनभेदिनी ज्ञानाद्यतिशयतः कुतीर्थिकनिह्नवप्रशंसारूपा ६ यस्यां कथायां कथ्यमानायां कृतवारित्रमनसः प्रतिपन्नव्रतस्य वा चारित्रं प्रति भेदो भवति ७ अथवा विविधरूपा परपरिवादादिलक्षणा कथा विकथा तस्यां 'परायणं'ति भृशं तत्परमित्यर्थः, भुवनभानुकेवलिपूर्वभवरोहिणीश्राविकावत् । यद्वा कथा चतुर्धा यथा-आक्षिप्यते-मोहात्तत्त्वं प्रत्याकृष्यते श्रोता यया साऽऽशेपणी १, विक्षिप्यतेकुमार्गविमुखो विधीयते श्रोता यया सा विक्षेपणी २ संवेद्यते-मोक्षसुखाभिलाषी विधीयते यया सा संवेदनी ३, निर्वेद्यतेसंसारनिर्विण्णो विधीयते यया सा निर्वेदिनी ४, तद्विपरीता विकथा तस्यां तत्परस्तं, हे सौम्य ! एवंविधं सूरिमुन्मार्गगा
SR No.600260
Book TitleGacchachar Prakirnakam
Original Sutra AuthorVanarrishi
Author
PublisherAgamoday Samiti
Publication Year1923
Total Pages88
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy