________________
... -
५४
गच्छाचारपइण्णयं विचरणं, सह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन् समासान्तः १ । एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थो वितर्क:-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कं, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र यस्य तदविचारीति २ । सूक्ष्मक्रिया यत्र निरुद्धवाङ्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात् तत्सूक्ष्मक्रियं, अप्रतिपातिअप्रतिपतनशीलं प्रवर्द्धमानपरिणामत्वादेतच्च निर्वाणगमनकाले केवलिन एव स्यादिति ३ । समुच्छिन्ना-क्षीणा क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, अनिवर्त्ति-अव्यावर्त्तनस्वभावमिति ४ । 'सुक्कस्स णं झाणस्स चत्तारि लक्खणा पं० तं० विवेगे १ विउस्सग्गे २ अव्वहे ३ असम्मोहे ४ ।' देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनंबुद्ध्या पृथक्करणं विवेकः १, व्युत्सर्गोनिस्सङ्गतया देहोपधित्यागः २, देवाद्युपसर्गजनितं भयं चलनं वा व्यथा तदभावो अव्यथं ३, देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य सम्मोहस्य-मूढताया निषेधोऽसम्मोहः ४ । 'सुक्कस्स णं झाणस्स चत्तारि आलंबणा पं० तं० खंती १ मुत्ती २ अज्जवे ३ मद्दवे ४ । सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पं० तं० अवायाणुप्पेहा १ असुभाणुप्पेहा २ अणंतवत्तियाणुप्पेहा ३ विपरिणामाणुप्पेहा ४, से तं झाणे ५ ।' अपायानां-प्राणातिपाताद्याश्रवद्वारजन्यानर्थानां अनुप्रेक्षा-ऽनुचिन्तनमपायानुप्रेक्षा १, संसाराशुभत्वानुचिन्तनं २, भवसन्तानस्यानन्तवृत्तितानुचिन्तनं ३, वस्तूनां प्रतिक्षणं विविधपरिणामगमनानुचिन्तनमिति ४ । ‘से किं तं विउस्सग्गे ? विउस्सग्गे दुविहे पं० तं० दव्वविउस्सग्गे १, भावविउस्सग्गे य २ । से किं तं दव्वविउस्सग्गे? २ चउविहे पं० २० सरीरविउस्सग्गे १, गणविउस्सग्गे २, उवहिविउस्सग्गे ३, भत्तपाणविउस्सग्गे ४, से तं दव्वविउस्सग्गे १' । से किं तं भावविउस्सग्गे? २ तिविहे पं० तं० कसायविउस्सग्गे १, संसारविउस्सग्गे