________________
गच्छाचारपइण्णयं
८६
ते परिस्सवा १ जे परिस्सवा ते आसवा २ अणासवा ते अपरिस्सवा ३ जे अपरिस्वा ते अणासवा ४ । इदमाचाराङ्गचतुर्थाध्ययनसूत्रमस्य व्याख्या-ये आश्रवति - आगच्छति अष्टप्रकारं कर्म्म यैरारम्भैस्ते आश्रवा:कर्म्मबन्धस्थानानीत्यर्थः, ये परिसमन्तात् श्रवति-गलति सच्छिद्रघटवत् यैरनुष्ठानविशेषैस्ते परिश्रवाः - कर्म्मनिर्जरास्थानानीत्यर्थः, अयं भावःयानीतरजनाचरितानि स्रगङ्गनादीनि सुखकारणतया तानि कर्मबन्धहेतुत्वात् आश्रवाः-कर्मबन्धस्थानानि पुनस्तान्येव तत्त्वविदां विषयसुखपराङ्मुखाणां निस्सारतया संसारसरणिदेश्यानीति कृत्वा वैराग्यजनकानि अतः परिश्रवाःनिर्ज्जरास्थानानीत्यर्थः १ । य एव परिश्रवाः - निर्ज्जरास्थानानि अर्हत्साधुतपश्चरणदशविधचक्रवालसामाचार्यनुष्ठानादीनि तान्येव कर्म्मोदयादशुभाध्यवसायस्य जन्तोराश्रवा भवन्ति-पापोपादानकारणानि जायन्त इत्यर्थः २ । ये आश्रवेभ्योऽन्येऽनाशश्रवाः - व्रतविशेषाः, तेऽपि कर्म्मोदयादशुभाध्यवसायिनो न परिश्रवा अपरिश्रवाःकर्म्मबन्धस्थानानीत्यर्थः। दुर्मुखव्याहृतप्रथमध्यानस्थप्रसन्नचन्द्रराजर्षिकौङ्कणसाध्वादिवत् ३ । ये न परिश्रवाः - कर्म्मबन्धस्थानानि ते न आश्रवा अनाश्रवाःकर्म्मबन्धनानि न भवन्ति । केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणा अपरिश्रवाः करवीरलताभ्रामकक्षुल्लस्येवानाश्रवाः - कर्म्मबन्धनानि न स्युरिति ४ । तथा 'उप्पन्ने इ वा १ विगमे इ वा २ धुवे इ वा ३' व्याख्याउत्पत्तिश्चतुर्द्धा जीवाज्जीवस्योत्पत्तिर्यथा मातापितृभ्यां पुत्रस्य १, जीवादजीवस्योत्पत्तिर्यथा सजीवदेहान्नखकेशादेः २, अजीवाज्जीवस्योत्पत्तिर्यथा-काष्ठात् घुणकस्य यद्वा द्राक्षादेरिलिकादीनां ३, अजीवादजीवस्योत्पत्तिर्यथा-कल्कयोगेन ताम्रात् स्वर्णस्येति ४ । विगमः- विनाशः सोऽपि चतुर्द्धा, जीवाज्जीवस्य विगमो भुजङ्गान्मनुष्यस्य १, जीवादजीवस्य नकुलसञ्चारात् दुग्धस्य यद्वा चिर्भटयोगात्कणिक्कायाः २, अजीवाज्जीवस्य विषान्मनुष्यादेः ३, अजीवादजीवस्य तक्रात् दुग्धस्येति ४, वस्तुनो
·