Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
गच्छाचारपइण्णयं
२८० श्रवणेन्द्रियं गिण्हेइत्ति क्रियाया अत्रापि सम्बन्धात् गृहन्ति-हरन्तीत्यर्थः, अथवा कारणे कार्योपचारात् रागो-रागोत्पत्तिहेतुर्वस्तु यथा मुखे शृङ्गारगीतादि नयनेऽञ्जनादि मस्तके सीमन्तादि ललाटे तिलकादि कष्ठे कुसुममालादि अधरे ताम्बूलरङ्गादि शरीरे चन्दनलेपादि तस्य मण्डलं समूहं तथा गृह्णन्ति यथा बालानामपि श्रोत्रेन्द्रियमुपलक्षणत्वादन्यदिन्द्रियचतुष्कं मनश्च गृहन्ति हरन्ति, अत्रोत्तरार्द्ध पाठान्तरं यथा-'गेण्हणरामणमंडणभोयंति व ता उ कब्बडे' अस्यार्थः-'गृहस्थबालकानां ग्रहणं कुर्वन्ति रामणं वा-क्रीडनं मण्डनं वा प्रसाधनं यदिवा ताः कल्पस्थान्गृहस्थबालकान् भोजयन्ति, अत्रापि गाथायां विभक्तिलोपविभक्तिव्यत्ययवचनव्यत्ययाः प्राकृतत्वादेवेति । गाथाछन्दः ||१२१।। अथ साध्वीनां शयनविधिं दर्शयन्नाह
जत्थ य थेरी तरुणी, थेरी तरुणी अ अंतरे सुअइ । गोअम ! तं गच्छवरं, वरनाणचरित्तआहारं ।।१२३ ।। यत्र च स्थविरा तरुणी, स्थविरा तरुणी च अन्तरिताः । स्वपन्ति गौतम ! तं गच्छवरं वरज्ञानचारित्राधारम् ॥१२३॥
व्याख्या - 'जत्थ य०' यत्र च गणे स्थविरा ततस्तरुणी पुनः स्थविरा ततस्तरुणीत्येवं अंतरिताः साध्व्यः स्वपन्तीति भावार्थः । तरुणीनां निरन्तरं शयने हि परस्परजङ्घाकरस्तनादिस्पर्शनेन पूर्वक्रीडित-स्मरणादिदोषः स्यात् अतः स्थविरान्तरिता एव ताः शेरते, हे गौतम ! वरज्ञानचारित्राधारं तं गच्छवरं जानीहीति । गाथाछन्दः ।।१२३।। अथ या आर्या न भवन्ति, ताः गाथात्रयेण दर्शयति
धोयंति कंठिआओ, पोअंती तह य दिति पोत्ताणि । गिहिकज्जचितंगाओ, नहु अज्जा गोअमा ! ताओ ।।१२४ ।।

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358