Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 309
________________ गच्छाचारपइण्णयं __ ३०२ श्रुत्वा-गुरुमुखाद्विधिना निशम्य, णमितिवाक्यालङ्कारे पठित्वा चसूत्रतोऽर्थतश्च विधिनैवाधीत्य भिक्षवो भिक्षुण्यश्च आत्मनो हितमिच्छन्तो यद्यथात्र भणितं तत्तथा कुर्वन्त्विति । विषमाक्षरेति गाथाछन्दः ।।१३७ ।। इति श्रीमत्तपागच्छनभोनभोमणिभट्टारकपुरन्दरश्रीआनन्दविमलसूरीश्वरचरणाम्भोजरजश्चञ्चरीकायमाणपण्डित श्रीविजयविमलगणिविरचितायां गच्छाचारप्रकीर्णकटीकायां साध्वीस्वरूपनिरूपणाधिकारस्तृतीयः समाप्तः ।।३।। तत्समाप्तौ च समाप्तेयं श्रीगच्छाचारप्रकीर्णकटीका ।। प्रायः स्वकीयोदितमप्यतादृशं, सर्वाङ्गभाजां जगतीह रोचते । इयं मदुक्तिस्तु ममैव नो तथा, कथं परेषां रुचये भविष्यति ।।१।। नाभूदृद्धकृता वृत्ति-रस्यादर्शास्तु भूरिशः | तऽथाप्यस्ति गुरूपास्तिः, समस्तस्वस्तिदाऽश्मनः ।।२।। यदत्र मतिवैगुण्याद्, ग्रन्थानभ्यासतस्तथा । भ्रमाद्वा विवृतं सार्वाऽऽ-गमेनामा विरोधभाक् ।।३।। विभक्त्यादिविरुद्धञ्च, मिथ्यादुष्कृतमस्तु तत् । शोधयन्तु च तत्त्वज्ञाः, कृत्वा तत्र घृणां मयि ||४|| युग्मम् ।। विचारोपनिषद्भेदसमुच्चयचिकीर्षया । गच्छाचाराभिधग्रन्थ-वृत्तिनिर्मितवानहम् ।।५।। || अथ प्रशस्तिर्लिख्यते ।। प्रकटितजगदानन्दः सुरतरुमणिसुरभिमहिमरमणीयः | प्रणते हितप्रणेता, शासननेता जयति वीरः ||१|| तत्पट्टोदयभानु-गणी सुधा यथार्थनामाऽभूत् । बोधितशरशतचौरः श्रीजम्बूः केवली चरमः ।।२।।

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358