Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 312
________________ ३०५ गच्छाचारपइण्णय श्रीअजितदेवसूरिः, प्राच्यस्तस्माद्बभूव शिष्यवरः । वादीति देवसूरिद्धितीयशिष्यस्तदीय इह ।।२४।। तत्रादिमाबभासे, गुरुर्विजयसिंहः । तस्याप्युभौ विनेयौ बभूवतुर्भूमिविख्यातौ ।।२५।। ख्यातस्तत्र शतार्थी, सोमप्रभसूरिपुङ्गवः प्रथमः | श्री मणिरत्नगणीन्द्रो, गुणगणमणिनीरनिधिरन्यः ।।२६ ।। शिष्या मणिरत्नगुरो-स्ततो जगच्चन्द्रसूरयोऽभूवन् । भूतलविदिता नूतन-वैराग्यावेगभाजस्ते ।।२७।। श्रीचैत्रगणाम्भोधौ, विधूपमाद्देवभद्रगणिमिश्रात् । उपसम्पन्नाश्चरणं, विधिना संवेगवेगवतः ।।२८ ।। आचामाम्लाख्यतपोऽभिग्रहवन्तो व्यधुर्विधूतमलाः | शर करटितरणि १२८५ वर्षे, ख्यातस्तत इति तपागच्छ: विशेषकम् ।। तेषामुभौ विनेयौ, देवेन्द्रगणीन्द्रविजयचन्द्राह्यौ । श्रीदेवेन्द्रगुरोरपि, शिष्यौ द्वौ भूतलख्यातौ ।।३०।। श्रीविद्यानन्दगणी प्रथमोऽन्यो धर्मघोषसूरिरिति । अथ सोमप्रभसूरिस्तस्य विनेयास्तु चत्वारः ||३१।। श्रीविमलप्रभसूरिः १, श्रीपरमानन्दसूरिगुरुराजः २ । श्रीपद्मतिलकसूरि ३-र्गणतिलकः सोमतिलकगुरुः ४ ।।३२ ।। श्रीसोमप्रभसूरेः, पट्टे श्री सोमतिलकसूरिन्द्राः । तेषां त्रयो विनेया-स्तत्र श्रीचन्द्रशेखरः प्रथमः ।।३३।। सूरिजयानन्दोऽन्य स्तृतीयका देवसुन्दरा गुरवः । श्रीसोमतिलकसूरेस्त एव पट्टाम्बरादित्याः ।।३४।।

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358