Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 314
________________ ३०७ गच्छाचारपइण्णय धन्यानगारसंकाशास्तपोभिर्दुस्तपैभृशम् । स्थूलभद्रोपमा ब्रह्म-चर्यवर्यगुणैरपि ।।४६ ।। श्रीमदानन्दविमल-प्रभवः शासनाद् गुरोः । शश्वत् शुद्धां क्रियां कर्तु-मकुर्वन्निश्चलं मनः ।।४७ ।। युग्मम् ।। अथ कुमार्गपतज्जनतोद्धृतौ, विनयभावमवाप्य सहायकम् । सविनयं नयनिर्मलमानसं, मुदमधाद्विशदां गुरुपुङ्गवः ।।८।। श्रीविनयभावसंह-विज्ञवरैः संयुताः सहायैस्ते । समतासहिता हित्वा, वस्त्रादिपरिग्रहे ममताम् ।।४९ ।। श्रीविक्रमनृपकालाद् भुजगजशरशशि १५८२ मितेगतेवर्षे । चक्रुश्चरणोद्धरणं, शरणं संवेगवेगवताम् ।।५० ।। युग्मम् ।। तदा च तेषां जगदुत्तमानां, संविग्नतासाररसप्रसिक्तः । म्लानिं गतोऽपीह चरित्रधर्मकल्पद्रुमः पल्लवितो बभूव ।।५१।। स गुरुर्गरिमौदार्य-स्थैर्यादिगुणसेवधिः । निर्ममत्वः शरीरेऽपि, तपस्तेपे सुदुस्तपम् ।।५२ ।। अथ तच्छ्रयतां किञ्चि-दालोच्य स्वकपाप्मनः । कृतवानौपवासाणामशीत्याभ्यधिकं शतम् ।।५३ ।। अर्हदादिपदध्यायी, विंशतिस्थानकं तपः । निर्विकारंश्चकारैष, चतुःशतचतुर्थकैः ।।५४ ।। चक्रे पुनस्तपस्त-द्वरिष्टषष्ठेश्चतुःशतप्रमितैः । विंशतिषष्ठानि ततो, विहरज्जिनपान् समाश्रित्य ! ||५५ ।। तीर्थाधिपवीरविभोः, षष्ठानि नवेक्षणेक्षण २२९ मितानि । पाक्षिकमुखेषु पर्वसु, षष्ठानि बहूनि चान्यानि ।।५६ ।। युग्मम् ।।

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358