________________
३०७
गच्छाचारपइण्णय
धन्यानगारसंकाशास्तपोभिर्दुस्तपैभृशम् । स्थूलभद्रोपमा ब्रह्म-चर्यवर्यगुणैरपि ।।४६ ।। श्रीमदानन्दविमल-प्रभवः शासनाद् गुरोः । शश्वत् शुद्धां क्रियां कर्तु-मकुर्वन्निश्चलं मनः ।।४७ ।। युग्मम् ।। अथ कुमार्गपतज्जनतोद्धृतौ, विनयभावमवाप्य सहायकम् । सविनयं नयनिर्मलमानसं, मुदमधाद्विशदां गुरुपुङ्गवः ।।८।। श्रीविनयभावसंह-विज्ञवरैः संयुताः सहायैस्ते । समतासहिता हित्वा, वस्त्रादिपरिग्रहे ममताम् ।।४९ ।। श्रीविक्रमनृपकालाद् भुजगजशरशशि १५८२ मितेगतेवर्षे । चक्रुश्चरणोद्धरणं, शरणं संवेगवेगवताम् ।।५० ।। युग्मम् ।। तदा च तेषां जगदुत्तमानां, संविग्नतासाररसप्रसिक्तः । म्लानिं गतोऽपीह चरित्रधर्मकल्पद्रुमः पल्लवितो बभूव ।।५१।। स गुरुर्गरिमौदार्य-स्थैर्यादिगुणसेवधिः । निर्ममत्वः शरीरेऽपि, तपस्तेपे सुदुस्तपम् ।।५२ ।। अथ तच्छ्रयतां किञ्चि-दालोच्य स्वकपाप्मनः । कृतवानौपवासाणामशीत्याभ्यधिकं शतम् ।।५३ ।। अर्हदादिपदध्यायी, विंशतिस्थानकं तपः । निर्विकारंश्चकारैष, चतुःशतचतुर्थकैः ।।५४ ।। चक्रे पुनस्तपस्त-द्वरिष्टषष्ठेश्चतुःशतप्रमितैः । विंशतिषष्ठानि ततो, विहरज्जिनपान् समाश्रित्य ! ||५५ ।। तीर्थाधिपवीरविभोः, षष्ठानि नवेक्षणेक्षण २२९ मितानि । पाक्षिकमुखेषु पर्वसु, षष्ठानि बहूनि चान्यानि ।।५६ ।। युग्मम् ।।