SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं _ ३०६ तेषां च पञ्च शिष्याः, प्रथमे श्रीज्ञानसागरा गुरवः | कुलमण्डना द्वितीयाः श्रीगुणरत्नास्तृतीयाश्च ।।३५ ।। तुर्या अहार्यवीर्या, गुरवः श्रीसोमसुन्दरप्रभवः । आसंश्च पञ्चमा अपि, गुरवः श्रीसाधुरत्नावाः ।।३६ ।। श्रीदेवसुन्दरगुरोः पट्टे श्रीसोमसुन्दरगणीन्द्रः | अभवन् युगप्रधानाः, शिष्यास्तेषां च पञ्चैते ।।३७।। श्रीमुनिसुन्दरसूरिः १, श्रीजयचन्द्रो २ गुरुगरिमधाम । श्रीभुवनसुन्दरगुरु ३ र्जिनसुन्दरसूरि ४ जिनकीर्ती ५ ।।३८ ।। श्रीसोमसुन्दरगुरोः, पट्टे मुनिसुन्दरो युगप्रवरः । तत्पट्टमुकुटरत्नं, सरत्नशेखरगुरूत्तंसः ||३९ ।। श्राद्धविधिसूत्रवृत्त्या-द्यनेकसद्ग्रन्थनिर्मितिपटिष्टः । - लक्ष्मीसागरसूरि-स्तत्पट्टमण्डनमतिगरिष्ठः ||४० ।। आसीत्तदीयपट्टे, गुरुर्गुणी सुमतिसाधुसूरीन्द्रः | श्रीहेमविमलसूरिस्तदीयपट्टे गुरुः समभूत् ।।४१।। अथ दुःषमोत्थदोषात्, प्रमादवशचेतसो ममत्वभृतः । अभवन् मुनयः प्रायः, स्वाचाराचरणशैथिल्याः ।।४२ ।। किञ्चिनिरीक्ष्याप्यसमञ्जसं तत्, शास्त्रार्थशून्यैः प्रतिभोज्झितैश्च । लुङ्काद्यनादेयमतान्धकूपेऽप्यन्धैरिवोच्चैः पतितं प्रभूतैः ||४३ ।। इतश्च । श्रीहेमविमलसूरि-र्दूरीकृतकल्मषः ससूरिगुणम् । ज्ञात्वा योग्यं तूर्णं, धर्मस्याभ्युदयसंसिद्ध्यै ।।४४।। सौभाग्यभाग्यपूर्णं, संवेगतरङ्गरङ्गनीरनिधिम् । आनन्दविमलसूरिं, स्वपट्टे स्थापयामास ||४५।। युग्मम् ।।
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy