SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं द्वादशानि प्रभुः पञ्च, चक्रे प्रथमकर्मणः तानि पञ्चान्तरायस्य, नवैव दशमानि तु । । ५७ ।। ३०८ दर्शनावरणस्यापि, मोहनीयस्य कर्मणः । अष्टाविंशतिसङ्ख्यानि, विशिष्टाष्टमकानि च ।। ५८ ।। युग्मम् ।। अष्टमदशमान्येवं, वेद्ये गोत्रे तथायुषि बहूनि । कृतवान् भगवान्नाम्नो, न च जज्ञे कर्मणस्तु तपः । । ५९ ।। तपोभिरेवं विहितैरनेकै-रनुत्तरैः श्रीगुरुकुञ्जरोऽसौ । वपुः सुशोषास्तसमस्तदोषः, स्वकं समग्रैर्दुरितैः सहैव ।।६० ।। वदन्ति तस्येति जना निरीक्ष्य, निरीहता ज्ञानतपः क्रियाढ्यम् । अवातरत्सर्वगुणः किमेषः, श्रीमान् जगच्चन्द्रगुरुर्द्वितीयः ||६१ || मरुस्थलीमालवगुर्जरात्रा - सौराष्ट्रमुख्येष्वपि मण्डलेषु । हरंस्तमः पङ्कमपास्तदोषः, स सूरिर्भानुर्व्यहरच्चिराय ||६२ || क्षितितलतिलके श्रीम- त्यहम्मदावादसंज्ञिते द्रङ्गे । विक्रमनृपतेः समति-क्रान्ते रसनवतिथि १५९६ मितेऽब्दे ।। ६३ ।। विधिना विहितानशनः, श्रीमानानन्दविमलसूरीन्द्रः । समवाप नाकसौख्यं, चेतसि निहितैश्चतुःशरणैः । । ६४ ।। युग्मम् श्रीवर्द्धमानादिह षोडशोभूत्, श्रीचन्द्रसूरिः किल गच्छनेता । श्रीमान् स सूरिस्तु बभूव, सप्त- त्रिंशो बृहद्गच्छपसर्वदेवः ||६५ ।। तपाभिधादिस्त्विह पञ्चचत्वारिंशो जगच्चन्द्रः मुनीन्द्रचन्द्रः । ततः क्रियोद्धारकृतो मुनीन्द्रा - स्त्रयोदशाः श्रीगुरवो बभूवुः ||६६ || एवं श्रीवीरजिनात् सन्ततिकृद्गच्छनाथगुरुगणने । आनन्दविमलगुरवः, श्रीमन्तः सप्तपञ्चाशः ।। ६७ ।।
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy