SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ३०९ गच्छाचारपइण्णय आसंस्तदीयपट्टे, प्रभवः श्रीविजयदानसूरीन्द्राः | सर्वत्र विजयवन्तो, नयवन्तः समयवन्तश्च ।।६८ ।। तेषां पट्टे सम्प्रति, विजयन्ते सर्वसूरिपारीन्द्राः । सुविहितसाधुप्रभवः, श्रीमन्तो हीरविजयावाः ||६९ ।। सौभाग्यमद्भुततरं भाग्यमसाधारणं सदा येषाम् । वैराग्यमुत्तमतमं, चारित्रमनुत्तरतमं च |७० ।। येषां दोषांश्च गुणान्, शक्तौ खलसज्जनौ न जायेताम् । वर्णयितुमसद्भावा-दप्रमितेश्चापि पूज्यानाम् ।।७१।। श्रीविजयसेनसूरि-प्रमुखैमुनिपुङ्गवैः प्रगतदोषैः । सेवितपदारविन्दार, श्रीगुरवस्ते जयन्तितराम् ।।७२ ।। तेषां श्रीसुगुरूणों, प्रसादमासाद्य संश्रुतानन्दः ।। वेदाग्निरसेन्दु १६३४ मिते, विक्रमभूपालतो वर्षे । ७३ ।। शिष्यो भूरिगुणानां, युगोत्तमानन्दविमलासूरीपणाम् । निर्मितवान् वृत्तिमिमा मुपकारकृते. विजयविमलः |७४ ।। युग्मम् कोविदविद्याविमला, विवेकविमलाभिधाश्च विद्वांसः । आनन्दविजयगणयो, विचिन्तयन्तो गुरौ भक्तिम् ।।७५ ।। शोधनलिखनादिविधा-वस्या वृत्तेर्व्यधुः समुद्योगम् । स्युर्बाढमादरपरा, उचिते कृत्ये हि कृत्यज्ञाः ||७६ || युग्मम् ।। प्रत्यक्षरं गणनया, वृत्तेर्मानं विनिश्चितम् । सहस्राः पञ्च सार्द्धानि, शतान्यष्टावनुष्टुभाम् ।।७७।। यावन्महीतले मेरु-र्यावच्चन्द्रदिवाकरौ । तावद्धत्तिस्यिं धीरे-र्वाच्यमानाऽश्नुतां जयम् ।।७८ ।।
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy