________________
गच्छाचारपइण्णयं
__ ३०२ श्रुत्वा-गुरुमुखाद्विधिना निशम्य, णमितिवाक्यालङ्कारे पठित्वा चसूत्रतोऽर्थतश्च विधिनैवाधीत्य भिक्षवो भिक्षुण्यश्च आत्मनो हितमिच्छन्तो यद्यथात्र भणितं तत्तथा कुर्वन्त्विति । विषमाक्षरेति गाथाछन्दः ।।१३७ ।। इति श्रीमत्तपागच्छनभोनभोमणिभट्टारकपुरन्दरश्रीआनन्दविमलसूरीश्वरचरणाम्भोजरजश्चञ्चरीकायमाणपण्डित श्रीविजयविमलगणिविरचितायां गच्छाचारप्रकीर्णकटीकायां साध्वीस्वरूपनिरूपणाधिकारस्तृतीयः समाप्तः ।।३।। तत्समाप्तौ च समाप्तेयं श्रीगच्छाचारप्रकीर्णकटीका ।। प्रायः स्वकीयोदितमप्यतादृशं, सर्वाङ्गभाजां जगतीह रोचते । इयं मदुक्तिस्तु ममैव नो तथा, कथं परेषां रुचये भविष्यति ।।१।। नाभूदृद्धकृता वृत्ति-रस्यादर्शास्तु भूरिशः | तऽथाप्यस्ति गुरूपास्तिः, समस्तस्वस्तिदाऽश्मनः ।।२।। यदत्र मतिवैगुण्याद्, ग्रन्थानभ्यासतस्तथा । भ्रमाद्वा विवृतं सार्वाऽऽ-गमेनामा विरोधभाक् ।।३।। विभक्त्यादिविरुद्धञ्च, मिथ्यादुष्कृतमस्तु तत् । शोधयन्तु च तत्त्वज्ञाः, कृत्वा तत्र घृणां मयि ||४|| युग्मम् ।। विचारोपनिषद्भेदसमुच्चयचिकीर्षया । गच्छाचाराभिधग्रन्थ-वृत्तिनिर्मितवानहम् ।।५।।
|| अथ प्रशस्तिर्लिख्यते ।। प्रकटितजगदानन्दः सुरतरुमणिसुरभिमहिमरमणीयः | प्रणते हितप्रणेता, शासननेता जयति वीरः ||१|| तत्पट्टोदयभानु-गणी सुधा यथार्थनामाऽभूत् । बोधितशरशतचौरः श्रीजम्बूः केवली चरमः ।।२।।