________________
३०१
गच्छाचारपइण्णयं शुद्धं भवति १० । तथा विस्तरतोऽस्वाध्यायिकस्वरूपं श्रीनिशीथसूत्रकोनविंशोद्देशकश्रीआवश्यकनियुक्त्यादिष्वस्तीति किंम्भूतं गच्छाचारं उत्तमंप्रधानं एतदुक्तानुष्ठानपालनपरायणानामवश्यं स्वर्गसुखा-वाप्तिनिबन्धनत्वात्, तथा 'सुअनिस्संदंति सिद्धान्तोपनिषद्भूतं तथा सूत्तमम्-उत्तमोत्तमं एतत्प्रणीताचारसम्यक्समाचरणचतुरान्तस्करण-वाक्कायानाम-वश्यमेव चतुर्वर्गप्रवेकापवर्गः शर्मसंसर्गसंसिद्धिहेतुत्वात्, नन्वत्राध्ययने साधव एवाधिकारिण उक्ताः, किं न श्राद्धादयः ? उच्यते-आगमे तेषां वाचनाप्रदानप्रतिषेधात् । उक्तञ्च-'जे भिक्खू वा भिक्खूणी वा अण्णउत्थियं वा गारत्थियं वा वाएइ वायंतं वा साइज्जइ' इत्यादि निशीथसूत्रस्यैकोनविंशतितमोद्देशकप्रान्ते अस्य चूर्णिः-'जे अण्णउत्थियं वा गारत्थियं वा इत्यादि जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा वायणं पडिच्छईत्यादि. एवं पासत्थे दो सुत्ता ओसण्णे दो कुसीले दो संसत्ते दो णितिए दो एतेसिं वायणं देइ पडिच्छइ भावतेणो वा सव्वेसु अहाच्छंदवज्जिएसु चउलहुं अहवा अत्थे चउगुरुं, अहाछंदे सुत्ते चउगुरुं अत्थे छल्लहुं इत्यादि, तथाभावे कारणे वाएज्जावि 'पव्वज्जाएगाहा' गिहिं अण्णपासंडिं वा पव्वज्जाभिमुहं सावगं वा छज्जीवणियंति जावसुत्तओ, अत्थओ जावपिंडेसणा एस गिहत्थादिसु अववादो इत्यादि । इत्यनुष्टुप् छन्दः ।।१३६ ।। अथ साधुसाध्वीनामेतत् प्रकीर्णकनिर्णीताचारयथावत्समाचरणोपदेशं तत्समाचरणफलगर्भ प्रकटयन्नाह
गच्छायारं सुणित्ताणं, पठित्ता भिक्खुभिक्खुणी । कुणंतु जं जहा भणियं, इच्छंता हियमप्पणो ।।१३७ ।। गच्छाचारं श्रुत्वा पठित्वा भिक्षवः भिक्षुण्यः । कुर्वन्तु यद्यथा भणितमिच्छन्तः हितमात्मनः ॥१३७।। व्याख्या - 'गच्छाया०' एतत् 'गच्छायारं ति गच्छाचाराभिधप्रकीर्णकं