SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं __ ३०० 'असज्झायं ति अस्वाध्यायिकं आकाशभवादिभेदभिन्नं स्वाध्यायविघातकृत, यत उक्तम्-स्थानाङ्गदशमस्थाने-'दसविहे अंतलिक्खिए असज्झाइए पन्नत्ते तं जहा-उक्कावाए १, दिसिदाहे २, गज्जिए ३, विज्जुए ४, निग्घाए ५, जुवए ६, जक्खालित्तए ७, थूमिआ ८, महिआ ९, रयउग्घाए १० । अंत० आकाशभवं अस०' स्वाध्यायो वाचनादिपञ्चविधो यथासम्भवं यस्मिन्नस्ति तत्स्वाध्यायिकं तदभावोऽस्वाध्यायिकम्, दिसि० एकतरदिग्विभागे महानयरप्रदीपनकमिव य उद्योतो भूमावप्रतिष्ठितो गगनतलवर्ती स दिग्दाहः २, निर्घातः साभ्रे निरभ्रे वा गगने व्यन्तरकृतो महागजितध्वनिः ५, सन्ध्याप्रभा चन्द्रप्रभा च यद्युगपद् भवतः तद् 'जुवगे'त्ति भणितं सन्ध्याप्रभाचन्द्रप्रभयोमिश्रत्वमिति भावः, तत्र चन्द्रप्रभावृता सन्ध्याऽपगच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु सन्ध्याछेदे वा ज्ञायमाने कालवेलां न जानन्त्यतस्त्रीणि दिनानि प्रादोषिकं कालं न गृहन्ति ततः कालिकस्यास्वाध्यायः स्यात् ६, यक्षादीप्तं आकाशे भवति एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलनां करोति ७, धूमिकामहिकाभेदो वर्णतो धूमाकारा धूम्रेत्यर्थः ८, महिका-प्रतीता एतच्च द्वयमपि कार्त्तिकादिषु गर्भमासेषु भवति ९, विस्रसापरिणामतः समन्ताद्रेणुपतनं रज उद्घातो भण्यते १०, दसविहे ओरालिए असज्झाइए पन्नत्ते० तंजहा अट्ठी १ मंसे २ सोणिए ३ असुइसामंते ४ सुसाणसामंते ५ चंदोवराए ६ सूरोवराए ७ पडणे ८ रायवुग्गहे ९ उवस्सयस्स अंतो उरालिए सरीरे १० । अशुचीनि-अमेध्यानि मूत्रपुरीषादीनि तेषां सामन्तं-समीपम् ४, शबस्थानसमीपम् ५, चंदो० चन्द्रसूर्यग्रहणे इत्यर्थः ६, ७, पतनं-मरणं राजाऽमात्यसेनापतिग्राम-भोगिकादीनाम् ८, राज्ञां सङ्ग्रामः उपलक्षणात्वात् सेनापतिग्रामभोगिकमहत्तरपुरुषस्त्रीमल्लयुद्धान्यस्वध्यायिकम् ९, मनुष्यादिसत्कं शरीरकं यद्युद्भिन्नं भवति तदा हस्तशताऽभ्यन्तरेऽस्वाध्यायिकम्भवति अथानुद्भिन्नं तथापि कुत्सितत्वादाचरिताच्च हस्तशतं वय॑ते परिष्ठापिते तु तत्र तत्स्थानं
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy