________________
गच्छाचारपइण्णयं व्याख्या-'मासे मा०' मासे मासे उ इत्यत्र 'क्रियामध्येऽध्वकाले पञ्चमी च' (२-२-११०) इति सूत्रेण सप्तमी वीप्सायां द्विर्वचनं तुश्चैवकारार्थः, ततश्च मासे मासे एव न त्वर्द्धमासादौ या आर्या-साध्वी एकसिक्थेन-एककणेन पारयेत्-पारणकं कुर्यात् 'कलहे'त्ति कलहेच्चकलहं कुर्यात् गृहस्थभाषाभिर्मर्मोद्घाटनशापप्रदानजकारमकारादिवचनैरित्यर्थः । अथवा कलहे - राढौ गृहस्थभाषाभिः क्रियमाणे सतीति शेषः । सर्वं तपःप्रभृतिधर्मानुष्ठानं तस्या निरर्थकं निष्फलमिति । विषमाक्षरेति गाथाछन्दः ।।१३४।। इत्येवं वर्णितं यतिनीस्वरूपम्, अथ ग्रन्थकृद् येभ्यो ग्रन्थेभ्यो यदर्थं चाऽयं गच्छाचारः समुद्धृतः तद्दर्शनायाह
२९९
महानिसीहकप्पाओ, ववहाराउ तहेव य ।
साहु साहुणि अट्टाए, गच्छायारं समुट्ठिओ ।।१३५ ।। महानिशीथकल्पात् व्यवहारात् तथैव च । साधुसाध्वीनामर्थाय गच्छाचारः समुद्धृतः ॥१३५॥
व्याख्या-‘महानि० ́ महानिशीथात्कल्पात्-बृहत्कल्पात् तथैव च व्यवहारात् छेदग्रन्थरूपादेव साधुसाध्वीनामर्थायकार्यायायं गच्छाचारः समुद्धृतो नपुंसकत्वमत्र प्राकृतत्वादेवेति । विषमाक्षरेति गाथाछन्दः ।। १३५ ।। अथ ग्रन्थकृदेतस्य ग्रन्थस्याध्ययनविधिमुपदिशन्नाह
पढंतु साहुणो एयं, असज्झायं विवज्जिरं । उत्तमं सुअनिस्संद, गच्छायारं सुउत्तमं ।। १३६ ।। पठन्तु साधवः एतद् अस्वाध्यायिकं विवर्ज्य उत्तमं श्रुतनिस्यन्दं गच्छाचारं सूत्तमम् ॥१३६॥
व्याख्या- 'पढंतुo' पठन्तु साधवः उपलक्षणत्वात् साध्व्यश्च एतद् 'गच्छायारं 'ति गच्छाचारभिधप्रकीर्णकं किं कृत्वा विवर्ज्य परित्यज्य किं