________________
३०३
४।।
गच्छाचारपइण्णयं श्रीमान् प्रभवस्वामी, गणनाथो गुणमणिसलिलनाथः । शय्यम्भवोऽपि सूरि-र्मणकपिता समजनिष्ट ततः ।।३।। निजगतिनिर्जितभद्रः, कृतभद्रः श्रीगणी यशोभद्रः | तत्पट्टे श्रीमन्तौ सम्भूतिविजयसुभद्रबाहुगुरू ||४|| श्रुतकेवलीह चरमः, स्थूलीभद्रस्तयोविनेयोऽभूत् । शिष्योत्तमौ तदीयौ, सूरिमहागिरिसुहस्तिगुरू ।।५।। जिनकल्पसुपरिकर्मः प्रथमः प्रथयान्वितः प्रथयतिस्म । श्रेणिकतः प्रति सम्पति-नृपं द्वितीयः स्म बोधयति ।।६।। तदनु च सुहस्तिशिष्यौ, कोटिककाकन्दकावजायेताम् । सुस्थितसुप्रतिबुद्धौ, कौटिकागच्छस्ततः समभूत् ।।७।। तत्रेन्द्रदिन्नसूरि-भगवान् श्रदिन्नसंज्ञसूरीन्द्रः । तस्य पट्टे सिंहगिरिगिरिरिव धीरो गिरिगभीरः ।।८।। समजनि वज्रस्वामी, जृम्भकदेवार्पितस्फुरद्विद्यः । बाल्येऽपि जातजाति-स्मृतिः प्रभुश्चरमदशपूर्वी ।।९।। श्रीवज्रसेनसंज्ञस्तत्पट्टपूर्वाद्रिचूलिकादित्यः । मूलं चान्द्रकुलस्सा-ननि च ततश्चन्द्रसूरिगुरुः ।।१०।। पूर्वगतश्रुतजलधि-स्तस्मात्सामन्तभद्रसूरीन्द्रः । श्रीमांश्च देवसूरिस्तदीयपट्टेऽभवद् वृद्धः ।।११।। प्रद्योतनाभिधान-स्ततोऽपि सूरीन्द्रमानदेवाख्यः | शान्तिस्तवेन मारिं, यो जहे देवताभ्यर्च्यः ||१२ ।। श्रीमानतुङ्गसूरिः कर्ता भक्तामरस्य गणभर्ता । श्रीमान् वीरः सूरि-स्ततोऽपि जयदेवसूरीन्द्रः ।।१३।।