________________
३०४
गच्छाचारपइण्णयं
___ ३०४ श्रीदेवानन्दगुरु-विक्रमसूरिर्गुरुश्च नरसिंहः । बोधितहिंसकयक्षः क्षपणकजेता समुद्रोऽथ ||१४।। हरिभद्रमित्रमभवत्, सूरिः पुनरेव मानदेवगुरुः । विबुधप्रभश्च सूरिस्तस्मात् सूरिजयानन्दः ।।१५।। श्रीमद्रविप्रभगुरुर्गरिमागारं गुरुर्यशोदेवः । सद्युम्नः प्रद्युम्नाभिधश्च सूरिस्ततोऽप्यासीत् ।।१६ ।। विहितोपधानवाच्य-ग्रन्थस्तस्माच्च मानदेवाख्यः | सूरिः समजनि भूयो, मानवदेवार्चितः सततम् |१७ ।। केचिदिदं सूरिद्वयमिह न वन्दति । तस्माच्च विलमचन्द्रः, सहेमसिद्धिर्बभूव सूरिवरः | उद्योतनश्च सूरि-रितदुरिताकुरव्यूहः ।।१८।। अथ युगनवनन्द ९९४ मिते, वर्षे विक्रमनृपादतिक्रान्ते । पूर्वावनितो विहरन्, सोऽर्बुदसुगिरेः सविधमागात् ।।१९।। तत्र वटेलीखेटक-सीमावनिसंस्थवरतरवटाधः । सुमुहूर्ते स्वपदेऽष्टौ, सूरीन् स स्थापयामास ।।२०।। युग्मम् ख्यातस्ततो गणोऽयं, वटगच्छाह्वोऽपि वृद्धगच्छ इति । अभवत्तत्र प्रथमः, सूरिश्री सर्वदेवावः ।।२१।। रूपश्रीरिति नृपति-प्रदत्तबिरुदोऽथ देवसूरिरभूत् । श्रीसर्वदेवसूरिर्जज्ञे पुनरेव गुरुचन्द्रः ।।२२।। जातौ तस्य विनेयौ, सूरियशोभद्रनेमिचन्द्राह्ह्वौ । ताभ्यां मुनीन्द्रचन्द्रः, श्रीमुनिचन्द्रो गुरुः समभूत् ।।२३।।