Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
गच्छाचारपइण्णयं
विलिकानि प्रयुञ्जन्ते ग्लानशैक्ष्यान् नैव तर्पयन्ति । अनागाढे आगाढं कुर्वन्ति आगाढे अनागाढम् ॥ ११९॥
व्याख्या 'विंटलि०' विंटलिकानि-निमित्तादीनि, विटलंनिमित्तादीत्योधनिर्युक्तिवृत्यादौ व्याख्यानात् तानि प्रयुञ्जन्ते, अत्रापि वचनव्यत्ययः प्राकृतत्वादेव, तथा ग्लानाश्च - रोगिण्यः शैक्ष्यश्च-नवदीक्षिता इति द्वंद्वोऽतस्ताः नैव तर्पयन्ति औषधभेषजवस्त्रपात्रज्ञानदानादिना नैव प्रीणयन्तीत्यर्थः । अत्र सूत्रे 'क्वचिद् द्वितीयादेः' ( ८-३-१३४ ) इति प्राकृतसूत्रेण द्वितीयास्थाने षष्ठी । यथा 'सीमाधरस्स वंदे 'त्ति तथा आगाढं-अवश्यकर्त्तव्यं ग्लानप्रतिजागरणादिकं न आगाढं अनागाढं तस्मिन् अनागाढे कार्य इति शेषः । आगाढं अवश्यकर्त्तव्यमिति कृत्वा कुर्वन्तीत्यर्थः। तथा आगाढे- अवश्यकर्त्तव्ये कार्ये अनागाढं कार्यं येन कृतेन विनापि सरति तत्कार्यं कुर्वन्तीत्यर्थः । अथवा अनागाढयोगाऽनुष्ठाने वर्त्तमाने आगाढयोगानुष्ठानं कुर्वन्ति तथा आगाढयोगानुष्ठाने अनागाढयोगानुष्ठानं कुर्वन्ति स्वच्छन्दाः श्रमण्यः इति कर्तृपदं पूर्वगाथात आकर्षणीयम्, एवमग्रेतनगाथात्रिकेऽपीति । गाथाछन्दः । ।११९ ।।
,
-
अजयणाए पकुव्वंति, पाहुणगाण अवच्छला । चित्तलयाणि अ सेवते, चित्ता रयहरणे तहा ।। १२० ।।
२७८
अयतनया प्रकुर्वन्ति प्राघूर्णिकानामवत्सला । चित्तलानि च सेवन्ते, चित्राणि रजोहरणानि तथा ॥ १२०॥
व्याख्या - ‘अजय० ́ अयतनया- ईर्याद्यशोधनेन प्रकुर्वन्ति गमनादिकमिति शेषः । तथा प्राघूर्णिकानां-ग्रामान्तराद्यागतसाध्वीनां अवत्सलानिर्दोषशुभान्नपानादिना भक्तिं न कुर्वन्तीत्यर्थः । तथा चित्रलानि सूत्रे कप्रत्ययः स्वार्थिकः प्राकृतलक्षणवशात् चकारः समुच्चये विचित्रचित्राणि

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358