SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं विलिकानि प्रयुञ्जन्ते ग्लानशैक्ष्यान् नैव तर्पयन्ति । अनागाढे आगाढं कुर्वन्ति आगाढे अनागाढम् ॥ ११९॥ व्याख्या 'विंटलि०' विंटलिकानि-निमित्तादीनि, विटलंनिमित्तादीत्योधनिर्युक्तिवृत्यादौ व्याख्यानात् तानि प्रयुञ्जन्ते, अत्रापि वचनव्यत्ययः प्राकृतत्वादेव, तथा ग्लानाश्च - रोगिण्यः शैक्ष्यश्च-नवदीक्षिता इति द्वंद्वोऽतस्ताः नैव तर्पयन्ति औषधभेषजवस्त्रपात्रज्ञानदानादिना नैव प्रीणयन्तीत्यर्थः । अत्र सूत्रे 'क्वचिद् द्वितीयादेः' ( ८-३-१३४ ) इति प्राकृतसूत्रेण द्वितीयास्थाने षष्ठी । यथा 'सीमाधरस्स वंदे 'त्ति तथा आगाढं-अवश्यकर्त्तव्यं ग्लानप्रतिजागरणादिकं न आगाढं अनागाढं तस्मिन् अनागाढे कार्य इति शेषः । आगाढं अवश्यकर्त्तव्यमिति कृत्वा कुर्वन्तीत्यर्थः। तथा आगाढे- अवश्यकर्त्तव्ये कार्ये अनागाढं कार्यं येन कृतेन विनापि सरति तत्कार्यं कुर्वन्तीत्यर्थः । अथवा अनागाढयोगाऽनुष्ठाने वर्त्तमाने आगाढयोगानुष्ठानं कुर्वन्ति तथा आगाढयोगानुष्ठाने अनागाढयोगानुष्ठानं कुर्वन्ति स्वच्छन्दाः श्रमण्यः इति कर्तृपदं पूर्वगाथात आकर्षणीयम्, एवमग्रेतनगाथात्रिकेऽपीति । गाथाछन्दः । ।११९ ।। , - अजयणाए पकुव्वंति, पाहुणगाण अवच्छला । चित्तलयाणि अ सेवते, चित्ता रयहरणे तहा ।। १२० ।। २७८ अयतनया प्रकुर्वन्ति प्राघूर्णिकानामवत्सला । चित्तलानि च सेवन्ते, चित्राणि रजोहरणानि तथा ॥ १२०॥ व्याख्या - ‘अजय० ́ अयतनया- ईर्याद्यशोधनेन प्रकुर्वन्ति गमनादिकमिति शेषः । तथा प्राघूर्णिकानां-ग्रामान्तराद्यागतसाध्वीनां अवत्सलानिर्दोषशुभान्नपानादिना भक्तिं न कुर्वन्तीत्यर्थः । तथा चित्रलानि सूत्रे कप्रत्ययः स्वार्थिकः प्राकृतलक्षणवशात् चकारः समुच्चये विचित्रचित्राणि
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy