SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २७७ गच्छाचारपइण्णयं जत्थ य समणीण-मसंखडाइ गच्छंमि नेव जायंति । तं गच्छं गच्छवरं, गिहत्थभासा उ नो जत्थ ।।११७ ।। यत्र च श्रमणीनामसंखडानि गच्छे नैव जायन्ते । स गच्छ: गच्छवरः गृहस्थभाषाः तु न यत्र ।।११७।। व्याख्या - 'जत्थ य' यत्र च गणे श्रमणीनां परस्परमसंखडानिकलहा नैव जायन्ते-नैवोत्पद्यन्ते, तथा यत्र गणे गृहस्थानां भाषाः ममा आई बापा भाइ बाइ इत्यादिका, अथवा गृहस्थैः सह सावद्यभाषाः गृहस्थभाषास्ता नोच्यन्ते, स गच्छः गच्छवरः-सकलगच्छप्रधानः स्यादिति । गाथाछन्दः ||११७ ।। अथ स्वच्छन्दाः श्रमण्यो यत्कुर्वन्ति तद्गाथापञ्चकेन प्रकटयति जो जत्तो वा जाओ, नालोअइ दिवसपक्खिअं वावि । सच्छंदा समणीओ, मयहरिआए न ठायति ।।११८।। यो यावान् वा जात: नालोचयन्ति दैवसिकं पाक्षिकं वापि । स्वेच्छाचारिणः श्रमण्य: महत्तरिकाया न तिष्ठन्ति ॥११८॥ व्याख्या - 'जो जत्तो०' यो यावान् वा अतीचार इति शेषः जातःउत्पन्नः तं तथा दैवसिकं पाक्षिकं वाऽपि शब्दाच्चातुर्मासिकं सांवत्सरिकं वाऽतिचारं नालोचयन्ति, अत्र वचनव्यत्ययः प्राकृतत्वात् स्वेच्छाचारिणः श्रमण्यः तथा महत्तरिकाया-मुख्यसाध्या आज्ञायामिति शेषः, न तिष्ठन्तीति । गाथाछन्दः ।।११८ ।। विंटलिआणि पउंजति, गिलाणसेहीण नेव तप्पंति । अणगाढे आगाढं, करंति आगाढि अणगाढं ।।११९ ।।
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy