________________
गच्छाचारपइण्णय
२७६ केवलानामकेवलानां वा रत्तिं ति ‘सप्तम्या द्वितीया' (८-३-१३७) इति प्राकृतसूत्रेण सप्तमीस्थाने द्वितीयाविधानात् रात्रौ या आर्या गणिनी 'धम्मति धर्मकथां कथयति, उपलक्षणत्वादिवसेऽपि या केवलपुरुषाणां धर्मकथां कथयति, गुणसागर ! हे इन्द्रभूते ! सा गणिनी गच्छस्य प्रत्यनीका भवति, अत्र च गणिनी ग्रहणेन शेषसाध्वीनामपि तथाविधाने प्रत्यनीकत्वमवसेयमिति । ननु कथं साध्व्यः केवलपुरुषाणामग्रे धर्मकथां न कथयन्ति ? उच्यते-यथा साधवः केवलानां स्त्रीणां धर्मकथां न कथयन्ति, तथा साध्व्योऽपि केवलानां पुरुषाणामग्रे धर्मकथां न कथयन्ति, यत उक्तं श्रीउत्तराध्ययने-'नो इत्थीणं कहं कहित्ता हवइ से निग्गंथे, तं कहमिति ? आयरियाह-निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जेज्जा, भेदं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायकं भवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं कहं कहेज्जत्ति ‘नो इत्थीणं' ति नो स्त्रीणां एकाकिनीनां कथां कथयिता भवति, यथेदं दशब्रह्मचर्यसमाधिस्थानमध्ये द्वितीयं ब्रह्मचर्यसमाधिस्थानं साधूनामुक्तं, तथा साध्वीनामप्येतत् युज्यते, तच्च साध्वीनां पुरुषाणामेव केवलानां कथाया अकथने भवतीति तथा 'स्थानाङ्गेऽपि 'नो इत्थीणं कहं कहेत्ता हवइ' इदं नवब्रह्मचर्यगुप्तीनां मध्ये द्वितीयगुप्तिसूत्रं, अस्य वृत्तिः-'नो स्त्रीणां केवलानामिति गम्यते, धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपामित्यादि' यथा च द्वितीयां गुप्ति साधवः पालयन्ति, तथा साध्व्योऽपि पालयन्ति, सा च साध्वीनां पुरुषाणामेव केवलानामग्रे कथाया अकथने भवतीत्यतः प्रोच्यते, न केवलपुरुषाणां साध्व्यो धर्मकथां कथयन्तीति । गाथाछन्दः ||११६ ।। अथ यथा श्रमणीभिर्गच्छस्य प्रधानत्वं स्यात् तथा दर्शयति