________________
२७९
गच्छाचारपइण्णयं वस्त्राणीतिशेषः, सेवन्ते-परिदधति तथा चित्राणि-पञ्चवर्णगुल्लादिरचनोपेतानि रजोहरणानि सेवन्ते-धारयन्ति स्वच्छन्दाः श्रमण्य इति । विषमाक्षरेति गाथाछन्दः ।।१२०।।
गइविन्भमाइएहिं, आगारविगार तह पणासंति । जह वुड्डगाण मोहो, समुईरइ किं तु तरुणाणं ।।१२१ ।। गतिविभ्रमादिभिः आकारविकारं तथा प्रकाशयन्ति । यथा वृद्धानां मोहो समुदीर्यते किं पुनः तरुणानाम् ? ॥१२१॥
व्याख्या - 'गइवि०' स्वच्छन्दाः श्रमण्यो गतिविभ्रमादिभिः 'आगारविगार'त्ति अत्र विभक्तिलोपः प्राकृतत्वात् तत आकारं-मुखनयनस्तनाद्याकृति विकारं च-मुखनयनादिविकृतिं यद्वा आकारस्य-स्वाभाविकाकृतेर्विकारो-विकृतिस्तं तथा प्रकाशयन्ति-प्रकटयन्ति, यथा वृद्धानांअपेर्गम्यमानत्वात् स्थविराणामपि मोहः-कामानुरागः समुदीर्यते-समुत्पद्यते किं पुनस्तरुणानां तेषां सुतरां समुत्पद्यत एवेत्यर्थः, तुः-पुनरर्थे इति । गाथाछन्दः ।।१२१।।
बहुसो उच्छोलिंती, मुहनयणे हत्थपायकक्खाओ । गिण्हेइ रागमंडल, सोइंदिअ तहय कव्वट्ठे ।।१२२ ।। बहुशो उच्छोलयन्ति मुखनयनानि हस्तपादकक्षाः । गृह्णन्ति रागमंडलं श्रवणेन्द्रियं तथैव कल्पस्थाः ॥१२२॥
व्याख्या - 'बहुसो०' मुखनयनानि हस्तपादकक्षाश्च बहुशो-वारंवारं उच्छोलयन्ति-प्रक्षालयन्ति स्वच्छन्दाः श्रमण्यस्तथा रागमण्डलंवसन्तादिरागसमूहं अग्रेतन 'तहय'त्ति पदस्य 'गेण्हइत्ति पदेन सह सम्बन्धात् 'तहय गेण्हेइ' त्ति तथैव गृण्हन्ति तथैव कुर्वन्तीत्यर्थः, यथा 'कव्वट्टे'त्ति कल्पस्थाः-समयपरिभाषया बालकास्तेषामपि श्रोत्रेन्द्रियं