SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ गच्छाचारपइण्णयं २८० श्रवणेन्द्रियं गिण्हेइत्ति क्रियाया अत्रापि सम्बन्धात् गृहन्ति-हरन्तीत्यर्थः, अथवा कारणे कार्योपचारात् रागो-रागोत्पत्तिहेतुर्वस्तु यथा मुखे शृङ्गारगीतादि नयनेऽञ्जनादि मस्तके सीमन्तादि ललाटे तिलकादि कष्ठे कुसुममालादि अधरे ताम्बूलरङ्गादि शरीरे चन्दनलेपादि तस्य मण्डलं समूहं तथा गृह्णन्ति यथा बालानामपि श्रोत्रेन्द्रियमुपलक्षणत्वादन्यदिन्द्रियचतुष्कं मनश्च गृहन्ति हरन्ति, अत्रोत्तरार्द्ध पाठान्तरं यथा-'गेण्हणरामणमंडणभोयंति व ता उ कब्बडे' अस्यार्थः-'गृहस्थबालकानां ग्रहणं कुर्वन्ति रामणं वा-क्रीडनं मण्डनं वा प्रसाधनं यदिवा ताः कल्पस्थान्गृहस्थबालकान् भोजयन्ति, अत्रापि गाथायां विभक्तिलोपविभक्तिव्यत्ययवचनव्यत्ययाः प्राकृतत्वादेवेति । गाथाछन्दः ||१२१।। अथ साध्वीनां शयनविधिं दर्शयन्नाह जत्थ य थेरी तरुणी, थेरी तरुणी अ अंतरे सुअइ । गोअम ! तं गच्छवरं, वरनाणचरित्तआहारं ।।१२३ ।। यत्र च स्थविरा तरुणी, स्थविरा तरुणी च अन्तरिताः । स्वपन्ति गौतम ! तं गच्छवरं वरज्ञानचारित्राधारम् ॥१२३॥ व्याख्या - 'जत्थ य०' यत्र च गणे स्थविरा ततस्तरुणी पुनः स्थविरा ततस्तरुणीत्येवं अंतरिताः साध्व्यः स्वपन्तीति भावार्थः । तरुणीनां निरन्तरं शयने हि परस्परजङ्घाकरस्तनादिस्पर्शनेन पूर्वक्रीडित-स्मरणादिदोषः स्यात् अतः स्थविरान्तरिता एव ताः शेरते, हे गौतम ! वरज्ञानचारित्राधारं तं गच्छवरं जानीहीति । गाथाछन्दः ।।१२३।। अथ या आर्या न भवन्ति, ताः गाथात्रयेण दर्शयति धोयंति कंठिआओ, पोअंती तह य दिति पोत्ताणि । गिहिकज्जचितंगाओ, नहु अज्जा गोअमा ! ताओ ।।१२४ ।।
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy