________________
२८१
गच्छाचारपइण्णयं धोवन्ति कण्ठिका प्रोतयन्ति तथा च ददति वस्त्राणि । गृहिकार्यचिन्तिकाः न हु आर्या गौतम ! ताः ॥१२४।।
व्याख्या - 'धोयंति०' याः कण्ठिका-गलप्रदेशान् धोवन्ति-नीरेण क्षालयन्ति तथा 'पोयंति त्ति मुक्ताफलविद्रुमादीनि प्रोतयन्ति गृहस्थानामिति गम्यते, तथा च 'पोत्ताणि त्ति बालकाद्यर्थं वस्त्राणि ददति चकारादौषधजटिकादिकमपि ददति, अथवा 'पोत्ताणि त्ति जलार्टीकृतवस्त्राणि ददति मलर फेटनाय शरीरे घर्षयन्तीत्यर्थः, तथा गृहिकार्यचिन्तिका:अगा रिकृत्यकरणतत्पराः, हे इन्द्रभूते ! ता आर्या न हु-नैव भवन्तीति । गाथाछन्दः ||१२४।।
खरघोडाइट्ठाणे, वयंति ते वावि तत्थ वच्चंति । वेसत्थीसंसग्गी, उवस्सयाओ समीरोमि ।।१२५ ।। खरघोटकादिस्थाने व्रजन्ति ते वापि तत्र व्रजन्ति । वेश्यास्त्रीसंसर्गिः उपाश्रयः समीपे ॥१२५॥
व्याख्या - 'खरघोडाइ०' खरा-गईभाः घोटका:-तुरंगमाः आदिशब्दाबस्त्यादयस्तेषां स्थाने या व्रजन्ति । उक्तं च व्यवहारभाष्यसप्तमोद्देशके-'तह चेव हत्थिसाला-घोडगसालाण चेव आसन्ने । जंति तह जंतसाला, काहीयत्तं च कुव्वंति ।१।' अथवा 'खर त्ति खरकादासाः घोडाः-चट्टाः अयं चानयोः शब्दयोरर्थः, श्रीबृहत्कल्प-तृतीयोद्देशकवृत्तावस्ति आदिशब्दात् द्यूतकारादयस्तेषां स्थाने व्रजन्ति ते गर्दभाः अश्वादयो दासचट्टादयो वा तत्रार्यिकोपाश्रये व्रजन्ति समायान्तीत्यर्थः, श्रीव्यवहारभाष्यसप्तमोद्देशके त्वेवं प्रथमपदपाठान्तरं-'थलिघोडाइट्ठाणे' त्ति तत्र स्थाल्यो-देवगोण्यः तत्र घोटाडिंगरा अत्रादिशब्दस्तेषामेव देवडिंगराणामनेकभेदख्यापनार्थस्तेषां स्थाने व्रजन्ति ते वा स्थलीघोटादेवडिंगराऽपरपर्यायास्तत्रार्यिकोपाश्रये व्रजन्ति तथा वेश्यास्त्रीसंसर्गिः सदैव यासां