________________
गच्छाचारपइण्णयं
२८२
यदिवा वेश्यागृहसमीपे यासामुपाश्रयः ता आर्यिका न भवन्तीति शेषः इति । गाथाछन्दः । । १२५ ।।
सज्झायमुक्कजोगा, धम्मकहाविगहपेसण गिहीणं । गिहिनिस्सिज्जं बाहिंति, संथवं तह कह (रं) तीओ । । १२६ ।। स्वाध्यायमुक्तयोगाः धर्मकथाविकथाप्रेषणगृहिणाम् । गृहिनिषद्यां बाधन्ते संस्तवं कुर्वन्त्यः ॥ १२६॥
व्याख्या-‘सज्झाय०' स्वाध्यायेन मुक्तो योगो व्यापारो यासां ताः स्वाध्यायमुक्तयोगाः ‘छक्कायमुक्कजोग 'त्ति पाठे तु षट्कायेषु मुक्तो योगोयतनालक्षणो व्यापारो याभिस्ताः षट्कायमुक्तयोगास्तथाभूताः सत्यो गृहिणां धर्मकथानामाख्याने विकथानां च स्त्रीकथादीनां करणे प्रेषणे च प्रेरणे च नानारूपे गृहिणामुद्युक्ताः, तथा या गृहिनिषद्यां बाधन्ते गृहिनिषिद्यामुपविशन्तीत्यर्थः तथा याः संस्तवं परिचयं गृहस्थैः सह कुर्वन्त्यो वर्त्तन्ते ताः साध्व्यो न भवन्तीति । गाथाछन्दः । । १२६ ।। अथ वृत्तद्वयेन गणिनीस्वरूपं दर्शयति
·
समा सीसपडिच्छीणं, चोअणासु अणालसा । गणिणी गुणसंपन्ना, पसत्थपुरिसाणुगा ।।१२७ ।। समा शिष्यप्रातीच्छिकानां चोदनासु अनलसा | गणिनी गुणसम्पन्ना प्रशस्तपुरुषानुगता ॥१२७॥
व्याख्या-‘समा सी० ́ स्वशिष्याणां प्रातीच्छिकानां च समा-तुल्या तथा चोदनासु अनलसा-कृतोद्यमा प्रशस्तपुरुषाऽनुगता-प्रशस्तपुरुषानुसारिणी एवंविधा गणिनी - महत्तरिका गुणसम्पन्ना - ज्ञानादिगुणसहितेति । अनुष्टुप् छन्दः ।। १२७ ।।