________________
२८७
गच्छाचारपइण्णयं ततो नोत्तरणीयम्, अथानुत्तीर्णानामन्यत्क्षेत्रं नास्ति ततोऽसति क्षेत्रे उत्तरणमनुज्ञातम्, इदमेव व्याचष्टे - सत्त उ वासासु भवे, दगसङ्घट्टा तिणि हुंति उडुबद्धे ते तु न हणंति खित्तं, भिक्खायरियं च न हणंति । । २ । । ये सप्तोदकसङ्घट्टा वर्षासु त्रयः सङ्घट्टाः ऋतुबद्धे साधूनां भवन्ति त एतावन्तः क्षेत्रं नोपघ्नन्ति, न च भिक्षाचर्यामुपघ्नन्ति,-जह कारणंमि पुण्णे, अंतो तह कारणंमि असिवादी । उवहीगहणे लिंपण, नावा य गते पि जयणाए । । ३ । । यथा कारणे पूर्णे मासकल्पे वर्षावासे वा अपरक्षेत्राभावे दृष्टमुत्तरणं तथा मासस्यान्तरप्यशिवादिभिः कारणैरुपधेर्वा ग्रहणार्थं लेपानयनार्थं वोत्तरणीयम्, कारणे यत्र नावाऽप्युदकं तीर्यते तत्रापि यतनया सन्तरणीयं तत्र चायं विधिः- नावथललेवहेट्ठा, लेवो वा उवरिए व लेवस्स । दोण्णी दिवड्डमेकं, अद्धं नावाइपरिहांती ||४|| तत्र पूर्वार्द्ध-पश्चार्द्धपदानां यथासंख्येन योजना नावुत्तरणस्थानाद्यदि द्वे योजने वक्रं स्थलेन गम्यते तेन गन्तव्यम्, न च नौरारोढव्या । लेवहिट्ठत्ति, लेपस्याधस्ताद्दकसङ्घट्टेन यदि सार्धयोजनपरिरयेण गम्यते ततस्तत्र गम्यतां न च नावमधिरोहेत्, एवं योजनपरिहारेण लेपेन गच्छतु न च नावमधिरोहेत्, अर्द्धयोजनपरिहारेण लेपोपरिणा गच्छतु न च नावमधिरोहेत् १ । एवं नावुत्तरणस्थानात् स्थलादिषु योजनद्वयादिकं परिहीयते, एवमेव लेपोपर्युत्तरणस्थानात् सार्द्धयोजनपरिहारेण स्थलेन, एकयोजनपरिरयेण सङ्घट्टेन, अर्द्धयोजनपरिहारेण लेपेन गम्यतां न च लेपोपरिणा २ । लेपोत्तरणस्थानादेकयोजनपर्यवहारेण स्थलेन अर्द्धयोजनपरिहारेण वा सङ्घट्टेन गन्तव्यं न लेपेन ३ । सङ्घट्टोत्तरणस्थानादर्द्धयोजनपर्यवहारेण स्थलेन गम्यतां न च सङ्घट्टेन ४ । एतेषां परिहारपरिमाणानामभावे नावा १ लेपोपरिणा २ लेपेन ३ सङ्घट्टेन वा ४ गम्यते न कश्चिद्दोष इत्यादि एतत्सूत्रद्वयार्थः । प्रायः सर्वोऽपि श्रीनिशीथचूर्णीद्वादशोद्देशकप्रान्तेऽप्यस्ति । तथा इदाणि नावत्ति दारं नावातारिमग्रहणा इमेवि