________________
२०५
गच्छाचारपइण्णयं यत्र च रक्तवस्त्राणां, नीलपीतादिरङ्गितवस्त्राणाञ्च तथा च परिभोगः। मुक्त्वा शुक्लं वस्त्रं, का मर्यादा तत्र गच्छे ? ॥८९॥
व्याख्या - ‘जत्थ हिर० जत्थ य०' यत्र गणे 'हिरण्य(ण्ण)सुवण्णे' त्ति विभक्तिव्यत्ययात् हिरण्यस्वर्णयोस्तत्र हिरण्यं-रूप्यं अघटितस्वर्ण वा, सुवर्णञ्च-सामान्येन स्वर्णं घटितस्वर्णं वा, तथा विभक्तिव्यत्ययादेव धनधान्ययोः, तत्र धनं-नाणकमाणिक्यादि धान्यं-सचित्तं यवादिचतुर्विंशतिधा यथा-'धन्नाइं चउव्वीसं जव १ गोहुम २ सालि ३ वीहि ४ सट्ठीया ५ । कुद्दव ६ अणुआ ७ कंगू ८ रालग ९ तिल १० मुग्ग ११ मासा य १२ ||१|| अयसि १३ हरिमंथ १४ तिउडा १५ निप्फाव १६ सिलिंद १७ रायमासा य १८ । इक्खू १९ मसूर २० तुबरी २१ कुलत्थ २२ तह धन्नय २३ कलाया २४ ।।२।। अणुका-युगंधरी ७ कंगुः-बृहच्छिराः ८ रालकोलघुशिराः कंगुविशेषः ९ अतसी-क्षुमा १३ हरिमंथाः-कृष्णचणकाः १४ निष्पावाः-वल्लाः १६ शिलिंदाः-मकुष्टाः १७ राजमाषाः-चवलकाः १९ ईक्षुः-बरट्टिका २० धान्यकं कुस्तुंभरी २३ कलाया अत्र वृत्तचणकाः ||२४।। तथा कांस्यञ्च-स्थालकच्चोलकादिरूपं ताम्रञ्च-कमण्डलुकलशकलशिकादिरूपं स्फाटिकञ्च-स्फाटिकरत्नमयभाजनादीनि द्वन्द्वस्तेषां उपलक्षणत्वात् काचकपर्दिका दन्तादिपात्राणां काष्ठपात्रेऽपि पित्तलकादिबन्धनानाञ्च, यत उक्तं श्रीनिशीथसूत्रैकादशके-'जे भिक्खू वा भिक्खूणी वा अयपायाणि वा १ कंसपायाणि वा २ तंबपायाणि वा ३ तउयपायाणि वा ४ सुवण्णपायाणि वा ५ रुप्पपायाणि वा ६ सीसगपायाणि वा ७ रीरियपायाणि वा ८ हारपुटपायाणि वा ९ मणिपायाणि वा १० कायपायाणि वा ११ संखपायाणि वा १२ सिसगपायाणि वा १३ दंतपायाणि वा १४ चेलपायाणि वा १५ सेलपायाणि वा १६ चम्मपायाणि वा १७ वइरपायाणि वा १८ 'हारपुटपायाणि त्ति लोहपात्राणि ९ करेइ करेंतं वा सातिज्जइ, -धरेइ धरेतं वा सातिज्जति, परि/जति परिभुंजतं वा साइज्जति, तस्स