________________
१४९
गच्छाचारपइण्णयं सति अनेकार्थबीजानां प्रतिपत्तारो बीजबुद्धयः बीजवुद्धिरेकपदार्थावगमादनेकार्थानामवगन्ता, पदानुसारी त्वेकपदावगमात् पदान्तराणामवगन्तेति विशेषः २२ । तथा 'तेयग' त्ति तेजोलेश्यालब्धिः क्रोधाधिक्यात् प्रतिपन्थिनं प्रति सुखेन विशिष्टतपोजन्यानेकयोजनप्रमाणक्षेत्राश्रितवरतुदहनसमर्थतेजोज्वालामोचनशक्तिः, सा तु यो यमी नित्यं षष्टं तपः करोति पारणके सनखकुल्माषमुष्ट्या जलचुलुकेन चास्ते तस्य षण्मासान्ते सिद्ध्यतीति २३ । तथा ‘आहारग' त्ति आहारकलब्धिः-आहारकशरीरकरणशक्तिः, आहारकशरीरं च हस्तप्रमाणमेकस्मिन् भवे द्विः, संसारे च चतुःकृत्वः, तीर्थकरस्फातिदर्शनाद्यर्थं चतुर्दशपूर्वविदा विधीयते, नानाजीवापेक्षयात्वेकस्मिन् समये तेषां नवसहस्राणि लभ्यते, अन्तरं जघन्यं समयं उत्कृष्टं तु षण्मासाः २४ । तथा शीतलेश्यालब्धिरगण्यकारुण्यवशादनुग्राह्यं प्रति तेजोलेश्याप्रतिघातप्रत्यलंशीततेजोविशेषविमोचनशक्तिः २५ । तथा 'वेउविदेहलद्धित्ति वैक्रियशरीरकरणशक्तिः साचानेकधा, अणुत्व १ महत्व २ लघुत्व ३ गुरुत्व ४ प्राप्ति ५ प्राकाम्ये ६ शित्व ७ विशित्व ८ अप्रतिघातित्व ९ अन्तर्धान १० कामरूपित्वादि ११ भेदात्, तत्राणुत्वंअणुशरीरविकरणं येन बिसछिद्रमपि प्रविशति, तत्र च चक्रवर्त्तिभोगानपि भुंक्ते १, महत्वं-मेरोरपि महत्तरशरीरकरणसामर्थ्यं २, लघुत्वं-वायोरपिलघुतरशरीरता ३, गुरुत्वं-वज्रादपि गुरुतरशरीरतया इन्द्रादिभिरपि प्रकृष्टबलैर्दुःसहता ४, प्राप्तिः-भूमिस्थस्य अमुल्यग्रेण मेरुपर्वताग्रप्रभाकरादिस्पर्शसामर्थ्य ५, प्राकाम्यं-अप्सु भूमाविव गमनशक्तिः, तथा अप्स्विव भूमावुन्मज्जननिमज्जने ६, ईशित्वं त्रैलोक्यस्य प्रभुता तीर्थकरत्रिदशेश्वरऋद्धिविकरणं ७, वशित्वं-सर्वजीववशीकरणलब्धिः ८, अप्रतिघातित्वंअद्रिमध्येऽपि निःसङ्गगमनम् ९, अन्तर्धानं-अदृश्यरूपता १०, कामरूपित्वंयुगपदेव नानाकाररूपक्किरणशक्तिः ११ ।२६ । तथा 'अक्खीणमहाणसत्ति अक्षीणमहानसो महानसं-अन्नपाकस्थानं तदाश्रित्वाद्राद्धान्नमपि