________________
१९६
गच्छाचारपइण्णयं न विधीयते । हे गौतम ! स गच्छ: स्यादिति शेष इति । यच्च श्रीवृहत्कल्पषष्ठोद्देशके 'निग्गंथस्स य अहे पादंसि खाणू वा कंटगे वा हीरे वा सक्करे वा परियावज्जेज्जा, तं च निग्गंथे नो संचाएज्जा नीहरित्तए वा विसोहित्तए वा, तं निग्गंथी नीहरमाणी वा विसोहेमाणी वा नाइक्कमइ १ । निग्गंथस्स य अच्छिंसि पाणे वा बीए वा रए वा परियावज्जेज्जा, तं च निग्गंथे नो संचाएज्जा नीहरित्तए वा विसोहित्तए वा, तं निग्गंथी नीहरमाणी वा विसोहेमाणी वा नाइक्कमइ २ । निग्गंथीए अहे पादंसि खाणू वा कंटए वा हीरए वा सक्करे वा परियावज्जेज्जा, तं च निग्गंथी नो संचाइज्जा नीहरित्तए वा विसोहित्तए वा, तं निग्गंथे नीहरमाणे वा विसोहेमाणे वा नाइक्कमइ ३ । निग्गंथीए अच्छिंसि पाणे वा बीए वा रए वा जाव निग्गंथे नीहरमाणे वा नाइक्कमइ ४ । अस्य व्याख्या-निर्ग्रन्थस्य चशब्दो वावयोपन्यासे अधः पादे-पादतले स्थाणुर्वा कण्टको वा हीरो वा शर्करो वा पर्याषतेत्-अनुप्रविशेत्, तच्च कण्टकादिकं निर्ग्रन्थो न शक्नुयात् नीहर्तुं वा-निष्काशयितुं विशोधयितुं वा-निःशेषमपनेतुं तत् निर्ग्रन्थी नोहरंती वा विशोधयन्ती वा नातिक्रामति आज्ञामिति गम्यते इति प्रथमसूत्रम् १ । द्वितीयसूत्रे निर्ग्रन्थस्याक्षिण-लोचने प्राणा वा-मशकादयः सूक्ष्माः बीजानि वा सूक्ष्माणि श्यामाकादीनि रजो वा-सचित्तमचित्तं वा पृथिवीरजः पर्यापतेत्, तच्च प्राणादिकं निर्ग्रन्थो न शक्नुयात् नीहर्तुमित्यादि प्राग्वत् २ । तृतीयचतुर्थसूत्रे निर्ग्रन्थीविषये एवमेव व्याख्यातव्य इति सूत्रचतुष्टयार्थ इथ्याधुक्तं तत्त्वत्यन्तापवादविषयं सम्भाव्यते, यतस्तत्र नियुक्तिवृत्तिविस्तर एवं प्रावर्तिष्ट । तथाहि-अथ नियुक्तिविस्तर:-पाए अच्छि वि लग्गे, समणाणं संजएहिं कायव्वं । समणीणं समणीहिं, वोच्चुत्थे होंति चउगुरुगा ।।१।। पादे अक्ष्णि वा विलग्ने कण्टककणुकादौ श्रमणानां संयतैरेव तस्य कण्टकादेर्नीहरणं कर्त्तव्यम्, श्रमणीनां पुनः श्रमणीभिरेव कार्यम्, अथ व्यत्यासेन कुर्वन्ति तदा चतुर्गुरवः एते चापरे