SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १९६ गच्छाचारपइण्णयं न विधीयते । हे गौतम ! स गच्छ: स्यादिति शेष इति । यच्च श्रीवृहत्कल्पषष्ठोद्देशके 'निग्गंथस्स य अहे पादंसि खाणू वा कंटगे वा हीरे वा सक्करे वा परियावज्जेज्जा, तं च निग्गंथे नो संचाएज्जा नीहरित्तए वा विसोहित्तए वा, तं निग्गंथी नीहरमाणी वा विसोहेमाणी वा नाइक्कमइ १ । निग्गंथस्स य अच्छिंसि पाणे वा बीए वा रए वा परियावज्जेज्जा, तं च निग्गंथे नो संचाएज्जा नीहरित्तए वा विसोहित्तए वा, तं निग्गंथी नीहरमाणी वा विसोहेमाणी वा नाइक्कमइ २ । निग्गंथीए अहे पादंसि खाणू वा कंटए वा हीरए वा सक्करे वा परियावज्जेज्जा, तं च निग्गंथी नो संचाइज्जा नीहरित्तए वा विसोहित्तए वा, तं निग्गंथे नीहरमाणे वा विसोहेमाणे वा नाइक्कमइ ३ । निग्गंथीए अच्छिंसि पाणे वा बीए वा रए वा जाव निग्गंथे नीहरमाणे वा नाइक्कमइ ४ । अस्य व्याख्या-निर्ग्रन्थस्य चशब्दो वावयोपन्यासे अधः पादे-पादतले स्थाणुर्वा कण्टको वा हीरो वा शर्करो वा पर्याषतेत्-अनुप्रविशेत्, तच्च कण्टकादिकं निर्ग्रन्थो न शक्नुयात् नीहर्तुं वा-निष्काशयितुं विशोधयितुं वा-निःशेषमपनेतुं तत् निर्ग्रन्थी नोहरंती वा विशोधयन्ती वा नातिक्रामति आज्ञामिति गम्यते इति प्रथमसूत्रम् १ । द्वितीयसूत्रे निर्ग्रन्थस्याक्षिण-लोचने प्राणा वा-मशकादयः सूक्ष्माः बीजानि वा सूक्ष्माणि श्यामाकादीनि रजो वा-सचित्तमचित्तं वा पृथिवीरजः पर्यापतेत्, तच्च प्राणादिकं निर्ग्रन्थो न शक्नुयात् नीहर्तुमित्यादि प्राग्वत् २ । तृतीयचतुर्थसूत्रे निर्ग्रन्थीविषये एवमेव व्याख्यातव्य इति सूत्रचतुष्टयार्थ इथ्याधुक्तं तत्त्वत्यन्तापवादविषयं सम्भाव्यते, यतस्तत्र नियुक्तिवृत्तिविस्तर एवं प्रावर्तिष्ट । तथाहि-अथ नियुक्तिविस्तर:-पाए अच्छि वि लग्गे, समणाणं संजएहिं कायव्वं । समणीणं समणीहिं, वोच्चुत्थे होंति चउगुरुगा ।।१।। पादे अक्ष्णि वा विलग्ने कण्टककणुकादौ श्रमणानां संयतैरेव तस्य कण्टकादेर्नीहरणं कर्त्तव्यम्, श्रमणीनां पुनः श्रमणीभिरेव कार्यम्, अथ व्यत्यासेन कुर्वन्ति तदा चतुर्गुरवः एते चापरे
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy