________________
१९७
गच्छाचारपइण्णयं
दोषाः । । १ ।। अण्णत्तो च्चिअ कुंटसि, अन्नत्तो कंटओ खतं जातं । दिट्टं पिहरति दिट्ठि, किं पुण अदिट्ठइअरस्स ।।२।। संयतः संयत्याः पार्श्वात् कण्टकमाकर्षयन् कैतवेन यथाभावेन वा अपावृत उपविशेत्, ततः सा तं यथावस्थितं पश्यन्ती कण्टकस्थानादन्यत्रान्यत्र शल्योद्धरणादिना कुण्टयेत् खन्यादित्यर्थः, ततः साधुब्रूयात् - अन्यत एव त्वं कुण्टयसि कण्टकश्चान्यत्र समस्ति एवं मे क्षतं सञ्जातम्, सा प्राह- इतरस्य पुरुषस्य सम्बन्धि सागारिकं दृष्टमपि भुक्तभोगिन्याः स्त्रिया अनेकशो विलोकितमपि दृष्टिं हरति, किं पुनरदृष्टमभुक्तभोगिन्यास्तस्याः सुतरां दृष्टिं हरतीत्यर्थः, एवं भिन्नकथायां प्रतिगमनादयो दोषाः । यदा तु निर्ग्रन्थो निर्ग्रन्थ्याः कण्टकमुद्धरति तदाऽयं दोषः । । २ ।। कंटककणुए उद्धर, धणितं अवलंब मे भमति भूमी । सूलं च वत्थिसीसे, पेल्लेहि घणं थणो फुरति ।।३।। काचिदार्यिका कैतवेनैवं ब्रूयात् कण्टककणुके पादे कण्टकं चक्षुषि च कणुकमुद्धर धणियं-अत्यर्थं मामवलम्बय, यतो मम भ्रमिवशेन भूमिर्भ्रमति, शुलं च बस्तिशीर्षे मम समायाति, तेन स्तनः स्फुरति अतो घनं प्रेरय । एवं भिन्नकथायां सद्यश्चारित्रविनाशः । । ३ । । एए चेव य दोसा, कहिया थीवेदिआदिसुत्तेसु । अयपालजंबुसीउण्हपाडणं लोगिगी रोहा ।।४।। एत एवानन्तरोक्ताश्चकारादपरे च बहवो दोषाः स्त्रीवेदविषया आदिसूत्रेषु - सूत्रकृताङ्गान्तर्गतस्त्रीपरिज्ञाध्ययनादिषु सविस्तरं परमगुरुभिः कथिताः तदर्थिना सूत्रकृताङ्गटीकैवावलोकनीया । अत्र चाजापालकशीतोष्णजम्बूपतिनोपलक्षिता लौकिकी रोहायाः कथा, तद्यथा-रोहा नामं परिव्वायगा तीए अयापालगो दिट्ठो, सो तीए अभिरुइओ, तीए चिंतियं - विन्नाणं से परिक्खामि सो य तया जंबूतरुवरारूढो, तीए फलाणि पणइओ, तेण भण्णइ-किं उण्हाणि देमि उदाहु सीयलाणि त्ति । तीए भण्णइ उण्हाणि, तओ तेण धूलीए उवरिं पाडियाणि भणिया खाहि त्ति, तीए फुसिउं धूलिं अवणेउं खाइयाणि, पच्छा सा भणति कहं भणसि उण्हाणि ? तेण
·