SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १९५ गच्छाचारपइण्णयं जत्थित्थीकरफरिसं, लिंगी अरिहोवि सयमवि करिज्जा । तं निच्छयओ गोयम ! जाणिज्झा मुलगुणे भटुं ।।८५ ।। यत्र स्त्रीकरस्पर्श लिङ्गी अर्होऽपि स्वयमपि (स्वयमेव) कुर्यात् । तं निश्चयतो गौतम ! जानीयात् मूलगुणभ्रष्टम् ।।८५॥ व्याख्या - यत्र गणे स्त्रीकरस्पर्श लिङ्गं विद्यते अस्यासौ लिङ्गीसाधुवेषवान् अर्होऽपि-पदव्यादिप्राप्त्या पूजादियोग्योऽपि स्वयमपि अपेरेवकारार्थत्वात् स्वयमेव कुर्यात् तं गच्छं निश्चयतो हे गौतम ! जानीयात् मूलगुणभ्रष्टम्-चारित्ररहितमिति, गाथाछन्दः ।।५।। स्त्रीकरस्पर्शादिकमुत्सर्गपदेन निषिध्याऽथाऽपवादपदेनापि निषिध्यति कीरइ बीअपएणं, सुत्तमभणि न जत्थ विहिणा उ । उप्पन्ने पुण कज्जे, दिक्खाआयकमाईए ।।८६ ।। क्रियते द्वितीयपदेन सूत्राभणितं न यत्र विधिना तु । उत्पन्ने पुनः कार्ये दीक्षान्तकादिके ।।८६।। व्याख्या - 'बीअपएणं' ति अपेर्गम्यमानत्वात् उत्सर्गपदापेक्षया द्वितीयपदेनापि-अपवादपदेनापीत्यर्थः, 'सुत्तममणिअंति मकारस्यालाक्षणिकत्वात् सूत्राभणितं-सूत्राननुज्ञातं सर्वथाऽऽगमनिषिद्धं स्त्रीकरस्पर्शादिकमित्यर्थः, यत उक्तं श्रीमहानिशीथपञ्चमाध्ययने-'जत्थित्थीकरफरिसं, अंतरिया कारणेवि उप्पन्ने । अरिहावि करिज्ज सयं, तं गच्छं मूलगुणमुक्कं ।।१।।' तथा तत्रैव ‘जण्णं गोयमा ! मेहुणं तं एगंतेणं ३ णिच्छयओ ३ बाढं ३ तहा आउतेउसमारंभं च सव्वहा सव्वप्पयारेहिं सययं विवज्जेज्जा' इत्यादि, 'उप्पण्णे पुण'त्ति पुनः शब्दस्याप्यर्थत्वात्, उत्पन्नेऽपि दीक्षान्तकादिके कार्य-प्रयोजने 'विहिणा उत्ति तुरेवकारार्थत्वाद्विधिविधिमतोरभेदविवक्षणाच्च विधिनैव-विधिमतैव आगमोक्तविधिज्ञेनैवेत्यर्थः नत्वागमविध्यज्ञेन तस्य मार्गोऽगणनेनैव निषेधात् । यत्र गच्छे न क्रियते
SR No.022582
Book TitleGacchachar Prakirnakam
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2011
Total Pages358
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Book_Gujarati, & agam_gacchachar
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy