________________
गच्छाचारपइण्णयं सामाचार्याः पञ्चवस्तुकगतप्रतिदिनक्रियाभिधद्वितीयद्वारादवसेयः, तथा अवश्यं कर्त्तव्यमावश्यकम, अथवा गुणानां आ-समन्ताद्वश्यमात्मानं करोतीत्यावश्यकम्, अथवा गुणशून्यमात्मानं आ समन्तात् वासयति गुणैरित्यावासकम्, तत्र उद्युक्ता-उद्यताः, अत्रावश्यकस्वरूपं किञ्चित् श्रीअनुयोगद्वारसूत्रोक्तं यथा-'से किं तं आवस्सयं ? आवस्सयं चउविहं पं० २० नामावस्सयं १ ठवणावस्सयं २ दव्वावस्सयं ३ भावावस्सयं ४ | से किं तं नामावस्सयं ? नामावस्सयं जस्स णं जीवस्स वा अजीवस्स वा जीवाणं वा अजीवाणं वा तदुभयस्स वा तदुभयाणं वा-आवस्सए त्ति नामं कज्जइ से तं नामावस्सयं १ । से किं तं ठवणावस्सयं ? ठवणावस्सयं जण्णं कठ्ठकम्मे वा १ चित्तकम्मे वा २ पोत्थकम्मे वा ३ लेप्पकम्मे वा ४ गंथिमे वा ५ वेढिमे वा ६ पूरिमे वा ७ संघाइमे वा ८ अक्खे वा ९ वराडए वा १० एगो वा अणेगो वा सब्भावठवणा वा असब्भावठवणा वा आवस्सए त्ति ठवणा ठविज्जइ से तं ठवणावस्सयं ।' काष्ठकादिष्वावश्यकक्रियां कुर्वन्तो यत्स्थापनारूपाः साध्वादयः स्थाप्यन्ते तत्स्थापनावश्यकमिति । 'कट्ठकम्मे' त्ति तत्र क्रियते इति कर्म काष्ठे कर्म काष्ठकने काष्ठनिष्कुट्टितरूपकमित्यर्थः १, चित्रकर्म-चित्रलिखितरूपकं २, पोत्तंवस्त्रमित्यर्थः, तत्र कर्म तत्पल्लवनिष्पन्नं ढीउल्लियारूपमित्यर्थः, अथवा पोत्थं-पुस्तकं ३, लेप्यरूपकं ४, ग्रन्थिमं कौशलातिशयाद् ग्रन्थिसमुदायनिष्पादितरूपकं ५, वै० पुष्पवेष्टनक्रमेण निष्पन्नरूपकं एकं
द्व्यादिनि वा वस्त्राणि वेष्टयन् कश्चिद्रूपकमुत्थापयति तद्वेष्टिमं ६, पूरिमं-भरिमं पित्तलादिमयप्रतिमावत् ७, सङ्घातिमं-वस्त्रादिखण्डसङ्घातनिष्पन्नं कचुकवत् ८, अक्षः-चन्दनकः ९, वराटकः-कपर्दकः १०, अत्र वाचनान्तरे अन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते, एतेषु काष्ठकादिष्वावश्यकक्रियां कुर्वन्त एकादिसाध्वादयः सद्भावस्थापनया असद्भावस्थापनया वा स्थाप्यमानाः स्थापनावश्यकं, तत्र काष्ठकर्मादिष्वाकारवती