________________
गच्छाचारपइण्णयं
__ १४४ व्याख्या-वाङ्मात्रेणापि किं पुनः कायेनेत्यपि शब्दार्थः, यत्र गच्छे भ्रष्टचरितस्य-खण्डितचारित्रस्य साधोः 'निग्गहं' ति, नपुंसकत्वं प्राकृत्वात्, निग्रहो-दण्डो विधिना आगमोक्तप्रकारेण, कथम्भूतस्य बहुलब्धियुतस्यापिआमर्पोषध्याद्यनेकलब्धिसमन्वितस्यापि क्रियते-विधीयते गुरुणा आचार्येण क्षुल्लकस्येव पित्रा स गच्छः स्यादिति क्षुल्लकसम्बन्धश्चायम्
वसन्तपुरे देवप्रियः श्रेष्ठी, यौवने भार्या मृता, पुत्रेणाष्टवार्षिकेण सह प्रव्रजितः । इतश्च स क्षुल्लकः परीषहैर्बाध्यमानो वक्ति-तात ! न शक्नोमि भिक्षाटनं कर्तुं, ततः पिता आनीय दत्ते, एवं भूमौ न संस्तारयितुं शक्नोमि, ततः पिता फलकमर्पयति, एवं लोचस्थाने क्षौरं कारयति, प्रक्षालयत्यङ्गं प्रासुकनीरेण, पुनर्वक्ति तात ! न शक्नोमि ब्रह्मव्रतं पालयितुं, ततोऽयोग्योऽयमिति पित्रा निष्काशितः, मृत्वा महिषो जातः, पिता चारित्रमाराध्य देवो जातः, अवधिना सुतं महिषं पश्यति, सार्थवाहरूपं कृत्वा तं महिषं गुरुभारं वाहयन् तात ! न शक्नोमीत्यादिपूर्वभवोक्तं पुनः पुनः कथयन् स्मारयति, तस्य जातिस्मरणं उत्पन्नम्, गृहीतानशनो महिषो मृत्वा वैमानिकदेवो जात इति क्षुल्लककथा । अत्राधिकारात् आमर्पोषध्यादिलब्धिस्वरूपं लिख्यते__ आमोसहि १ विप्पोसहि २ खेलोसहि ३ जल्लओसही ४ चेव । सव्वोसहिसंभिन्ने ६, ओही ७ रिउ ८ विउलमइलद्धी ९ ।।१।। चारण १० आसीविस ११ केवली अ १२, गणधारिणो अ १३ पुव्वधरा १४ । अरिहंत १५ चक्कवट्टी १६, बलदेवा १७ वासुदेवा १८ य ।।२।। खीरमहुसप्पिआसव १९-कोट्ठयबुद्धी २० पयाणुसारी य । तह बीयबुद्धि २२ तेयग २३-आहारग २४ सीयलेसा य २५ ।।३।। वेउविदेहलद्धी २६, अक्खीणमहाणसी २७ पुलागा य २८ । परिणामतववसेणं, एमाई हुति लद्धीओ ।।४।। इह लब्धिशब्दस्य प्रत्येकमभिसम्बन्धात्