________________
१२५
गच्छाचारपइण्णयं वेदनावैयावृत्त्येर्यार्थं च संयमार्थम् । तथा प्राणप्रत्ययार्थं षष्ठं पुनो धर्मचिन्तार्थम् ॥५९॥
व्याख्या - पदैकदेशे पदसमुदायोपचारात् ‘वेअण'त्ति क्षुद्वेदनोपशमनाय भुञ्जीत, यतो नास्ति क्षुत्सदृशी वेदना । उक्तं च-पंथसमा नत्थि जरा, दारिद्दसमो अ परिभवो नत्थि | मरणसमं नत्थि भयं, छुहासमा वेदणा नत्थि ।।१।। तं नत्थि जं न वाहइ, तिलतुसमित्तंपि एत्थ कायस्स । सन्निझं सव्वदुहाइ, दिति आहाररहिअस्स ।।२।। १, तथा बुभुक्षितः सन् वैयावृत्त्यं कर्तुं न शक्नोति अत आचार्यादीनां वैयावृत्त्यकरणाय २, तथा ईर्यार्थ-ईर्यासमित्यर्थं ३, तथा संयमः-प्रत्युपेक्षणाप्रमार्जनादिलक्षणः साधुव्यापारः तत्पालनार्थं, बुभुक्षित एनं कर्तुं न शक्नोतीति ४, तथा प्राणा-जीवितं प्राणो वा-स्थानं तत्प्रत्ययार्थ-तत्सन्धारणार्थं यतो बुभुक्षितस्स तद् द्वयमपि परिहीयते ५, तथा षष्ठं पुनः कारणं धर्मचिन्तार्थंसूत्रार्थानुचिन्तनादिलक्षणशुभचित्तप्रणिधानार्थं एतदपि बुभुक्षितः कर्तुं न शक्नोतीति ६, अत्र-भुजीतेति क्रियाशेषः सर्वत्र सम्बन्धनीयः । अत्र प्रसङ्गतोऽभोजनकारणान्यपि षडुच्यन्ते-'आयंके १ उवसग्गे, तितिक्खया २ बंभचेरगुत्तीसु ३ । पाणिदया ४ तवहेउं ५, सरीरवोच्छेअणट्ठाए ६ ||१|| आतङ्के-ज्वरादावुत्पन्ने सति न भुञ्जीत १, तथा उपसर्गेराजस्वजनादिकृते देवमनुष्यतिर्यक्कृते वा सजाते सति तितिक्षार्थउपसर्गसहनार्थं २, तथा ब्रह्मचर्यगुप्तिष्विति अत्र षष्ठ्यर्थे सप्तमी ततोऽयमर्थः-ब्रह्मचर्यगुप्तीनां परिपालनाय ३, तथा प्राणिदयार्थंवृष्टिमहिकासूक्ष्ममंडूकादिरक्षार्थं ४, तथा तपोहेतोः-तपःकरणनिमित्तं ५, तथा चरमकाले शरीरव्यवच्छेदार्थं ६, सर्वत्र न भुञ्जीतेति क्रियासम्बन्ध इति । गाथाछन्दः ||५९ ।। अथ पुनरपि गच्छस्वरूपमेवाह
जत्थ य जिट्ठकणिट्ठो, जाणिज्जइ जिट्ठवयणबहुमाणो, ... दिवसेण वि जो जिट्टो, न य हीलिज्जइ स गोअमा गच्छो ।।६०।।