________________
७९
गच्छाचारपइण्णयं विरमणरूपः ७, तपः ८, त्यागः-सुविहितेभ्यो वस्त्रादिदानरूपः ९, ब्रह्मचर्य १०, इति श्रमणधर्मः | पृथिव्य १ प् २ तेजो ३ वायु ४ वनस्पति ५ द्वि ६ त्रि ७ चतुः ८ पञ्चेन्द्रियाणां पालनान्नव भेदाः ९ अजीवसंयम:पुस्तकचर्मपञ्चकादीनां अनुपभोगो यतनया परिभोगो वा हिरण्यादित्यागो वा १०, प्रेक्षासंयमः-रथानादि यत्र चिकीर्षेत्तत्र चक्षुषा प्रेक्ष्य कुर्यात् ११, उपेक्षासंयमो-व्यापाराव्यापारविषयतया द्वेधा तत्र सदनुष्ठाने सीदतः साधूनोपेक्षेत-प्रेरयेदित्यर्थः । गृहिणस्तु आरम्भे सीदत उपेक्षेत न व्यापारयेत् १२, प्रमार्जनासंयमः-पथि पादयोर्वसत्यादेश्च विधिना प्रमार्जनं १३, परिष्ठापनासंयमः-अविशुद्धभक्तोपकरणादेर्विधिना त्यागः १४, मनोवाक्कायसंयमाः-अकुशलानां मनोवाक्कायानां निरोधाः १७, श्रीउमास्वातिवाचकपादैस्तु संयमभेदाः प्रशमरतावेवमुक्ताः ‘पञ्चाश्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति, संयमः सप्तदशभेदः ||१||' इति संयमः । 'दसविधे वेयावच्चे पं० तं० आयरियवेयावच्चे १ उवज्झायवे० २ थेरवे० ३ तवस्सिवे० ४ गिलाणवे० ५ सेहवे० ६ कुलवे० ७ गणवे० ८ संघवे० ९ साहम्मियवेयावच्चे १०, इति वैयावृत्त्यम् । नव बंभचेरगुत्तीओ पं० तं० विवित्ताई सयणासणाइं सेवित्ता भवति णो इत्थिसंसत्ताइं नो पसुसंसत्ताइं नो पंडगसंसत्ताइं १, नो इत्थीणं कहं कहेत्ता हवइ । नो स्त्रीणां केवलानां कथां धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपां २, नो इत्थिठाणाइं सेवित्ता भवति । ठा० निषद्या ३, णो इत्थीणं मणोहराई मणोरमाइं इंदियाइं आलोलित्ता निज्झाइत्ता भवइ ४, णो पणीयरसभोई ५, णो पाणभोयणस्स अइमायमाहारए सया भवति ६, णो पुव्वरयं पुव्वकीलियं सरित्ता भवइ ७, णो सद्दाणुवाती णो रूवाणुवाई णो सिलोगाणुवाई ८, णो सायासोक्खपडिबद्धे याविभवइ ९, इति ब्रह्मगुप्तिः । ज्ञानदर्शनचारित्रलक्षणं ३ ज्ञानादित्रिकं, तपो द्वादशधा पूर्वोक्तं १२, क्रोधमानमायालोभत्यागः ४ क्रोधादिनिग्रहः, इति चरणं ७० | वस्त्र १