________________
गच्छाचारपइण्णयं
__५८ प्रयोगात् उत्पादना दोषाः, षोडशो-मूलकर्म च १६, तत्र मूलंदशप्रायश्चित्तानां मध्ये अष्टमं तत्प्राप्तिनिबन्धनं कर्म गर्भघाताद्यपि मूलकर्म, मूलानां वा-वनस्पत्यवयवानां कर्म-औषधाद्यर्थं छेदनादिक्रिया मूलकर्म, चः समुच्चये ।।२।। 'संकिय १ मक्खिय २ निक्खित्त ३, पिहिय ४ साहरिय ५ दायगुम्मीसे ७ । अपरिणय ८ लित्त ९ छड्डिय १९, एसणदोसा दस हवंति ।।१।।' शङ्कितं-सम्भाविताधाकर्मादिदोषं भक्तादि १, मेक्षितं-सचित्तादिभिः २, निक्षिप्तं-न्यस्तं सचित्तादिषु ३, पिहितं-तैः स्थगितं ४, संहृतं-तस्मादन्यत्र क्षिप्तम् ५, दायका-बालकादयः तैर्दीयमानं ६ उन्मिश्र-सचित्ताचित्तयुक्तम् ७, अपरिणतं द्रव्यं भावो वा ८, लिप्तंखरण्टितं ९, छर्दितं-परिशाटनावत् १०, एवमेषणादोषा दश भवन्ति १ । प्रस्तावाद् ग्रासैषणा दोषा अपि पञ्चोच्यन्ते-'संजोयणा १ पमाणे २, इंगाले ३ धुम ४ कारणे पढमा । वसहिबहिरंतरे वा, रसहेउं दव्वसंजोगा 11१।। संयोजना-रसगृद्ध्या गुणान्तरार्थं द्रव्यान्तरयोजनं १, प्रमाणं मानमतिक्रम्य भोजनं २, अङ्गार इति चारित्रेन्धनस्य रागाग्निना अङ्गारस्येव करणं ३, 'धुम' त्ति चरणेन्धनस्य द्वेषेण धुमवत्करणं वतुःप्रत्ययलोपात् धूमः ४, कारणं-भोजनहेत्वनाश्रयणं ५, इति किञ्चिन्न्यूनगाथार्द्धार्थः । इति सक्षेपेण सप्तचत्वारिंशद्दोषस्वरूपं विस्तरतस्तु पिण्डनियुक्त्यादिभ्यो ज्ञेयम् । इदं च दोषस्वरूपं पिण्डमाश्रित्योक्तम् । एवं वस्त्रादीन्यप्याश्रित्य यथासम्भवं ज्ञेयम् । अथ प्रसङ्गतो गुरुलघुदोषस्वरुपं यथा-तत्र सर्वगुरुमूलकर्म, तत्र मूलं १८० । तस्माच्चाधाकर्मकं कर्मोद्देशिकचरमत्रिकं मिश्रान्त्यद्विकं बादरप्राभृतिका सप्रत्यपायाभ्याहृतं लोभपिण्डोऽनन्तकायाव्यवहितनिक्षिप्तपिहितसंहृतमिश्रापरिणतछर्दितानि संयोजना साङ्गारवर्त्तमानभविष्यन्निमित्तं चेति लघवो दोषा मूलप्रायश्चित्ताच्चतुर्थतपोवत् । एतेभ्यः कर्मोद्देशिकाद्यभेदो मिश्रप्रथमभेदो धात्रीत्वं दूतीत्वमतीतनिमित्तमाजीवनापिण्डो वनीपकत्वं