Book Title: Dwadash Parvkatha Sangraha Author(s): Labdhimuni, Buddhisagar Gani Publisher: Jinduttsuri Gyanbhandar View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir द्वादशपर्वकथा-संग्रह ज्ञानपञ्चम कथा DDCDOreo मती राझी, रूपलावण्यशोभिता। वरदत्तस्तयोः पुत्रो-ऽभूत्क्रमादष्टवार्षिकः ॥ ८॥ पित्रा स पाठशालायां, मुक्तस्तस्य 6 मुखे परं। एकमप्यक्षरं नैव, चटत्यशुभकर्मणा ॥९॥ क्रमात्स यौवनं प्राप्तो-भृत्कुष्ठरोगपीडितः। न कुत्राऽपि रति पाप, प्राग्भवकृतकर्मणा ॥१०॥ इतश्चास्मिन्पुरे सप्त-कोटिद्रव्येश्वरोऽभवत् । जिनधर्मरतः श्रेष्टी, सिंहदासो वणिग्वरः | ॥११॥ करतिकका तस्य, प्रिया तयोः सुताऽभवत् । आजन्मरोगिणी मूका, दुःखिनी गुणमञ्जरी ॥१२॥ विविधैरौषधैस्तस्या, रोगशान्तिन जायते । न नरो यौवने कोऽपि, तां परिणेतुमिच्छति ॥१॥ तस्याः षोडशवपिण्या, दुःखेन समजायत । सकळः स्वजनो माता-पित्रादिरतिदुःखितः॥१४॥ तत्राऽन्यदा पुरे पूज्या, विजयसेनसूरयः। चतुर्सानघरा धर्मो-पदेशकाः समागताः ॥१५॥ तदा पौरजनो भूपः, सपुत्रः सकुटुम्बकः । श्रेष्ठी च सिंहदासाख्यो, वन्दनार्थमुपागतः ॥१६॥ गुरुणाऽपि सभामध्ये, चारब्धा धर्मदेशना । मो जना! ज्ञानमस्त्यत्र, सर्ववस्तुनिरूपकम् ।।१७॥ ज्ञानस्याराधने | यत्नो-ऽध्ययन-श्रवणादिभिः। भव्यविधेयः सततं, निर्वाणपदमिच्छुभिः ॥१८॥ विराधयन्ति ये ज्ञानं, मनसा ते भवान्तरे। नराः स्युः शून्यमनसो, विवेकपरिवर्जिताः ॥१९॥ विराधयन्ति ये ज्ञान, वचसाऽपि हि दुर्षियः। मृकखमुखरोगित्व-दोषास्तेषामसंशयम् ॥२०॥ विराधयन्ति ये ज्ञान, कायेनायत्नवर्तिना । दुष्टकुष्ठादिरोगाः स्यु-स्तेषां देहे विगर्हिते ॥२१॥ युग्मम् ॥ मनोवाकाययोगैर्ये, ज्ञानस्याऽऽशातनां सदा । कुर्वन्ते मूढमतयः, कारयन्ति परानपि ॥२२॥ | तेषां परभवे पुत्र-कलत्रसुहृदां क्षयः। धनधान्यविनाशश्च, तथाऽऽधिव्याधिसम्भवः ॥२३॥ युग्मम् ॥ इत्यादिदेशनां श्रुखा, सिंहदासोऽवदद्गुरो!। मम सुतातनौ रोगाः, संजाताः केन कर्मणा ? ॥२४॥ गुरुणोचे महाभाग !, कर्मणा किं न सम्भवेत् । अत्राऽस्या गुणमार्याः, पूर्वभवो निशम्यताम् ॥२५॥ धातकीखण्डमध्यस्थे, भरते खेटके पुरे । जिनदेवाऽभिधः DomperoeCRocome Dece NI ॥२॥ For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 127