Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 193
________________ ६० ध्यानशतकम्, गाथा-३३ a उक्ता दर्शनभावना, साम्प्रतं चारित्रभावनास्वरूप-गुणप्रदर्शनायेदमाह नंबकम्माणायाणं पोराणविणिज्जरं सुभायाणं । चारित्तभावणाए झाणमयत्तेण य समेइ ।।३३।। नव० गाहा ।। नवकर्मणामनादानम् इति नवानि उपचीयमानानि प्रत्यग्राणि भण्यन्ते, क्रियन्त इति कर्माणि ज्ञानावरणीयादीनि, तेषामनादानम्- अग्रहणं चारित्रभावनया, समेतिगच्छतीति योगः, तथा पुराणविनिर्जराम् चिरन्तनक्षपणामित्यर्थः, तथा शुभादानम् इति शुभं पुण्यं - सात-सम्यक्त्व-हास्य-रति-पुरुषवेद-शुभायुर्नामगोत्रात्मकम्, तस्याऽऽदानम्-ग्रहणम् । किम् ? चारित्रभावनया हेतुभूतया ध्यानम्, चशब्दानवकर्मानादानादि च, अयत्नेन अक्लेशेन समेति गच्छति प्राप्नोतीत्यर्थः । तत्र चारित्रभावनयेति कोऽर्थः ? 'चर गति-भक्षणयोः' इत्यस्य 'अति-लू-धू-सू-खनसह-चर इत्रः' [पा.३-२-१८४] इतीत्रन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपम्, तस्य भावश्चारित्रम् । एतदुक्तं भवति-इहान्यजन्मोपात्ताष्टविधकर्मसञ्चयापचयाय चरणभावश्चारित्रमिति, सर्वसावद्ययोगविनिवृत्तिरूपा क्रिया इत्यर्थः, तस्य भावना-अभ्यासश्चारित्रभावनेति गाथार्थः ।।३३।। C संवेगः प्रशमः स्थैर्य-मसंमूढत्वमस्मयः । आस्तिक्यमनुकम्पेति, ज्ञेया सम्यक्त्वभावना ।। ९ ।। -ध्यानदीपिकायाम ।। RIA अव. चारित्रभावनामधिकृत्याहनिर्युः साहुमहिंसाधम्मो सञ्चमदत्तविरई य बंभं च । साहु परिग्गहविरई साहु तवो बारसंगो य ।। ३३८ ।। वृ. साधु शोभनोऽहिंसादिलक्षणो धर्म इति प्रथमव्रतभावना, तथा सत्यमस्मिन्नेवार्हते प्रवचने साधु__ शोभनं नान्यत्रेति द्वितीयव्रतस्य, तथाऽदत्तविरतिश्चात्रैव साध्वीति तृतीयस्य, एवं ब्रह्मचर्यमप्यत्रैव नवगुप्तिगुप्तं धार्यत इति, तथा परिग्रहविरतिश्चेहैव साध्वीति, एवं द्वादशाङ्गं तप इहैव शोभनं नान्यत्रेति ।। x x x || ___ -आचाराङ्गसूत्रे, चूलिका-३ ।। B मू. उपशान्तक्षीणकषाययोश्च ।। ९-३८।। वृ. xxx तथा चरणभावनाधिष्ठितः कर्माण्यपराणि नादत्ते, पुरातननिर्जरणं शुभानि वा सञ्चिनुते । ततश्चायत्नेनैव धर्मध्यायी भवति । ..।। -तत्वार्थ, सिद्ध. वृत्तौ ।। C ईर्यादिविषया यत्ना, मनोवाक्कायगुप्तयः । परीषहसहिष्णुत्व-मिति चारित्र्यभावना ।। १० ॥ - ध्यानदीपिकायाम् ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302