Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 266
________________ शक्लध्याने प्रथमध्यातव्यम् १३३ karatarnatatamarataratarntararatatatarararamataramatatatateraturataterature सवियार० गाहा ।। तत्किमित्याह – सविचारम् सह विचारेण वर्तत इति सविचारम्, विचारः अर्थ-व्यञ्जन-योगसंक्रम इति, आह च-अर्थ-व्यञ्जन-योगान्तरतः अर्थो द्रव्यम्, व्यञ्जनं शब्दः, योगः मनःप्रभृति, एतदन्तरतः एतद्भेदेन सविचारम्, अर्थाद् व्यञ्जनं संक्रामतीति विभाषा, तकद् एतत् प्रथमं शुक्लम् आद्यं शुक्लं भवति, किंनामेत्यत आह - पृथक्त्ववितर्कं सविचारम् पृथक्त्वेन भेदेन, विस्तीर्णभावेनान्ये, वितर्कः - श्रुतं यस्मिन् तत्तथा, कस्येदं भवतीत्यत आह- अरागभावस्य रागपरिणामरहितस्येति गाथाद्वयार्थः । ७८ ।। श्रुतानुसारिणीत्यर्थः । पूर्वं च पूर्वं च पूर्वे ध्याने । एतदेव निश्चिनोति- प्रथमद्वितीये इति पृथक्त्ववितर्कमेकत्ववितर्कं च । तत्र-तयोर्यत् प्रथमम्-आद्यं पृथक्त्ववितर्कं तत् सविचारं सह विचारेण सविचारं सह सङ्क्रान्त्येति यावत् । वक्ष्यति [अ० ९, सू० ४६] “विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः" । कथं पुनरनुपात्तं सूत्रे सविचारमिति गम्यते ? अविचारं द्वितीयमिति वचनादर्थलभ्यं प्रथमं सविचारमिति । अविचारं द्वितीयम् । अविद्यमानविचारम् अविचारम्, अर्थव्यञ्जनयोगसङ्क्रान्तिरहितमित्यर्थः । द्वितीयमिति सूत्रक्रमप्रामाण्यादेकत्ववितर्कमविचारम् भवति ध्यानमिति ।। ४४ ।। भा. अत्राह-वितर्कविचारयोः कः प्रतिविशेष इति ?। अत्रोच्यतेवृ. अत्राहेत्यादि वितर्कविचारयोर्विशेषमजानानः स्वरूपमवगच्छन् परः पृच्छति-कः प्रतिविशेष इति । प्रतिशब्दस्तत्त्वाख्यायां वर्तते । यथा-शोभनश्चैत्रः प्रतिमातरमेवं प्रतिविशेषः स्वरूपमितरेतरव्यावृत्तं तत्त्वं वितर्कविचारयोः कीदृगिति तत्त्वमाख्यायताम्। अत्रोच्यत इत्याह -तत्त्वार्थ. सिद्ध. वृत्तौ ।। ३] A मू. वितर्कः श्रुतम् ।। ९-४५ ।। भा० यथोक्तं श्रुतज्ञानं वितर्को भवति ॥ ४५ ।। वृ. वितकों-मतिज्ञानं विकल्पः । वितय॑ते-येनालोच्यते पदार्थः स वितर्कः तदनुगतं श्रुतं वितर्कः तदभेदाद् विगतं तर्क वा वितर्कम्, संशयविपर्ययोपेतं श्रुतज्ञानमित्यर्थः । इदमेव सत्यमित्यविचलितस्वभावम् । यथोक्तमिति पूर्वगतमेव, नेतरत् । श्रुतज्ञानमाप्तवचनं वितर्क उच्यते इति ।। ४५ ।। -तत्त्वार्थ. सिद्ध. वृत्तौ ।। अव. विचारस्वरूपनिरूपणायाह - B मू० विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः ।।९-४६।। भा. अर्थव्यञ्जनयोगसङ्क्रान्तिर्विचार इति । एतदभ्यन्तरं तपः संवरत्वादभिनवकर्मोपचयप्रतिषेधकं निर्जरणफलत्वात् कर्मनिर्जरकम् । अभिनवकर्मोपचयप्रतिषेधकत्वात् पूर्वोपचितकर्मनिर्जरकत्वाच निर्वाणप्रापकमिति ।।४६।। वृ० अर्थव्यञ्जनयोोगेषु च सङ्क्रमणं सङ्क्रान्तिः । अर्थः-परमाण्वादिः, व्यञ्जनं तस्य वाचकः शब्दः, Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302