Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 293
________________ ध्यानशतकम्, गाथा-१०५, १०६ १६० Pararararararanarasarararamataranatakarakaaranararararararararararadaarate ईय सव्वगुणाहाणं दिट्ठादिट्ठसुहसाहणं झाणं । सुपसत्थं सद्धेयं नेयं झेयं च निच्चंपि ।।१०५ ।। इय० गाहा ।। ‘इय' एवमुक्तेन प्रकारेण सर्वगुणाधानम् अशेषगुणस्थानं दृष्टादृष्टसुखसाधनं ध्यानमुक्तन्यायात् सुष्टु प्रशस्तं सुप्रशस्तम् तीर्थंकरादिभिरासेवित्वात्, यतश्चैवमतः श्रद्धेयं नान्यथैतदिति भावनया ज्ञेयं ज्ञातव्यं स्वरूपतया ध्येयम् अनुचिन्तनीयं क्रियया, एवं च सति सम्यग्दर्शन-ज्ञान-चारित्राण्यासेवितानि भवन्ति, नित्यमपि सर्वकालमपि। आह - एवं तर्हि °शेषक्रियालोपः प्राप्नोति ? न, तदासेवनस्यापि तत्त्वतो ध्यानत्वात्, नास्ति काचिदसौ क्रिया या आगमानुसारेण क्रियमाणा साधूनां ध्यानं न भवतीति गाथार्थः ।।१०५ ।। | पंचुत्तरेण गाहासएण झाणस्सयं समक्खायं । Lजिणभद्दखमासमणेहिं कम्मसोहीकरं जइणों ।। १०६ ।।। ।। इति वैक्रमीये २०६५ तमे वर्षे व्याख्यानवाचस्पतिपूज्यपाचार्यश्रीमद्विजयरामचन्द्रसूरिशिष्यानां वर्धमानतपोनिधिपूज्याचार्यश्रीमद्विजयगुणयशसूरीश्वराणामन्तेवासिना विजयकीर्तियशसूरिणा मुम्बापुरीनगरे संशोधितः संपादितश्चायं समर्थशास्त्रकारशिरोमणि-श्रीमद्-हरिभद्रसूरिविरचितवृत्याऽलङ्कृतो भगवच्छ्रीमज्जिनभद्रगणि-क्षमाश्रमण विरचितो ध्यानशतकग्रन्थः समाप्तिमगमत् ।। १. एतद्ध्यानफलं शुद्धं, मत्वा भगवदाज्ञया । यः कुर्यादेतदभ्यासं, सम्पूर्णाऽध्यात्मविद्भवेत् ।। ८६ ।। - अध्यात्मसारे, अ. १६ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302