________________
ध्यानशतकम्, गाथा-१०५, १०६
१६० Pararararararanarasarararamataranatakarakaaranararararararararararadaarate
ईय सव्वगुणाहाणं दिट्ठादिट्ठसुहसाहणं झाणं ।
सुपसत्थं सद्धेयं नेयं झेयं च निच्चंपि ।।१०५ ।। इय० गाहा ।। ‘इय' एवमुक्तेन प्रकारेण सर्वगुणाधानम् अशेषगुणस्थानं दृष्टादृष्टसुखसाधनं ध्यानमुक्तन्यायात् सुष्टु प्रशस्तं सुप्रशस्तम् तीर्थंकरादिभिरासेवित्वात्, यतश्चैवमतः श्रद्धेयं नान्यथैतदिति भावनया ज्ञेयं ज्ञातव्यं स्वरूपतया ध्येयम् अनुचिन्तनीयं क्रियया, एवं च सति सम्यग्दर्शन-ज्ञान-चारित्राण्यासेवितानि भवन्ति, नित्यमपि सर्वकालमपि।
आह - एवं तर्हि °शेषक्रियालोपः प्राप्नोति ? न, तदासेवनस्यापि तत्त्वतो ध्यानत्वात्, नास्ति काचिदसौ क्रिया या आगमानुसारेण क्रियमाणा साधूनां ध्यानं न भवतीति गाथार्थः
।।१०५ ।। | पंचुत्तरेण गाहासएण झाणस्सयं समक्खायं । Lजिणभद्दखमासमणेहिं कम्मसोहीकरं जइणों ।। १०६ ।।।
।। इति वैक्रमीये २०६५ तमे वर्षे व्याख्यानवाचस्पतिपूज्यपाचार्यश्रीमद्विजयरामचन्द्रसूरिशिष्यानां वर्धमानतपोनिधिपूज्याचार्यश्रीमद्विजयगुणयशसूरीश्वराणामन्तेवासिना विजयकीर्तियशसूरिणा मुम्बापुरीनगरे संशोधितः संपादितश्चायं समर्थशास्त्रकारशिरोमणि-श्रीमद्-हरिभद्रसूरिविरचितवृत्याऽलङ्कृतो भगवच्छ्रीमज्जिनभद्रगणि-क्षमाश्रमण
विरचितो ध्यानशतकग्रन्थः समाप्तिमगमत् ।।
१. एतद्ध्यानफलं शुद्धं, मत्वा भगवदाज्ञया ।
यः कुर्यादेतदभ्यासं, सम्पूर्णाऽध्यात्मविद्भवेत् ।। ८६ ।।
- अध्यात्मसारे, अ. १६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org