Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 292
________________ १५९ इहलोकप्रतीतध्यानफलम् Parasatssassistantaantarasatarakarararararararararerakararararate जह वा घणसंघाया खणेण पवणाहया विलिज्जंति । झाणपवणावहूया तह कम्मघणा विलिज्जंति ।।१०२।। जह० गाहा ।। यथा वा घनसङ्घाता मेघौघाः क्षणेन पवनाहता वायुप्रेरिता "विलीयन्ते विनाशं यान्ति-गच्छन्ति, ध्यानपवनावधूता ध्यानवायुविक्षिप्ताः तथा कर्मव जीवस्वभावावरणाद् घनाः उक्तं च - "स्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् ।।१।।" [ ] इत्यादि । विलीयन्ते विनाशमुपयान्तीति गाथार्थः ।।१०२ ।। किञ्चेदमन्यदिहलोकप्रतीतमेव ध्यानफलमिति दर्शयति - ण कसायसमुत्थेहि य बाहिज्जइ माणसेहिं दुक्खेहिं । ईसा-विसाय-सोगाइएहिं झाणोवगयचित्तो ।।१०३।। ण कसाय. गाहा ।। न कषायसमुत्थैश्च न क्रोधाद्युद्भवैश्च बाध्यते पीड्यते मानसैर्दुःखैः, मानसग्रहणात्ताप इत्याद्यपि यदुक्तं तन्न बाध्यते ईर्ष्या-विषादशोकादिभिस्तत्र प्रतिपक्षाभ्युदयोपलम्भजनितो मत्सरविशेष ईर्ष्या, विषादो वैक्लव्यम्, शोको दैन्यम् आदिशब्दाद्भयादिपरिग्रहः, ध्यानोपगतचित्त इति प्रकटार्थमयं गाथार्थः ।।१०३।। सीयाऽऽयवाइएहि य सारीरेहिं सुबहुप्पगारेहिं । __झाणसुनिचलचित्तो न वहिज्जइ निज्जरापेही ।।१०४।। सीयायव० गाहा । इह कारणे कार्योपचारात् शीतातपादिभिश्च आदिशब्दात् क्षुदादिपरिग्रहः, शारीरैः सुबहुप्रकारैः अनेकभेदैर्ध्यानसुनिश्चलचित्तो ध्यानभावितमतिर्न बाध्यते, ध्यानसुखादिति गम्यते, अथवा न शक्यते चालयितुम्, तत एव च निर्जरापेक्षी कर्मक्षयापेक्षक इति गाथार्थः ।।१०४ ।। उक्तं फलद्वारम्, अधुनोपसंहरन्नाह - _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302