Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 290
________________ ध्यानस्य माहात्म्यम् १५७ संसारप्रतिपक्षतया च मोक्षहेतुनिमित्यावेदयन्नाह - संवर-विणिज्जराओ मोक्खस्स पहो तवो पहो तासि । झाणं च पहाणंगं तवस्स तो मोक्खहेऊ तं ॥९६।। संवर० गाहा ।। संवर-विनिर्जरे मोक्षस्य पन्थाः अपवर्गस्य मार्गस्तपः पन्था मार्गः तयोः संवर-निर्जरयोः, ध्यानं च प्रधानाङ्गं तपस आन्तरकारणत्वात्, ततो मोक्षहेतुस्तद् ध्यानमिति गाथार्थः ।।१६।। अमुमेवार्थं सुखप्रतिपत्तये दृष्टान्तैः प्रतिपादयन्नाह - अंबर-लोह-महीणं कमसो जह मल-कलंक-पंकाणं । सोज्झा-वणयण-सोसे साहेति जलाऽणलाऽऽइच्चा ।।९७।। तह सोज्झाइसमत्था जीवंबर-लोह-मेइणिगयाणं । झाणजला-ऽणल-सूरा कम्ममल-कलंक-पंकाणं ।।९।। अंबर० गाहा ।। अम्बर-लोह-महीनां वस्त्र-लोहा-ऽऽर्द्रक्षितीनां क्रमशः क्रमेण यथा मल-कलङ्क-पकानां यथासङ्ख्यं शोध्य-पनयन-शोषान् यथासङ्ख्यमेव साधयन्ति निर्वर्तयन्ति जला-ऽनला-ऽऽदित्या इति गाथार्थः।।९७ ।। । ते य विसेसेण सुहासवादओ अणुत्तरसुहं च। दोण्हं सक्काण फलं परिनिव्वाणं परिल्लाणं ।। ९४ ।।" - योगशास्त्रे, प्र. ११ ।। c एतञ्चतुर्विधं शुक्लध्यानमत्र द्वयोः फलम् । आद्ययोः सुरलोकाप्ति-रन्त्ययोस्तु महोदयः ।। ८० ।। -अध्यात्मसारे, अ. १६।। RA मोक्षोऽतिकर्मक्षयतः प्रणीतः कर्मक्षयो ज्ञानचारित्र्यतश्च । ज्ञानं स्फुरद् ध्यानत एव चास्ति ध्यानं हितं तेन शिवाध्वगानाम् ।। ४६ ।। मोक्षः कर्मक्षयादेव स सम्यग्ज्ञानतो भवेत् । ध्यानसाध्यं मतं तद्धि तस्मात्तद्धितमात्मनः ।। ४७ ।। - ध्यानदीपिकायाम् ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302