Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 272
________________ शुक्लध्याने तृतीयभेदम् १३९ निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियट्टि तइयं तणुकायकिरियस्स ।।१।। RA मू. चतारि झाणा पं० x x x सुक्के झाणे चउन्विहे चउप्पडोआरे.... सुहुमकिरिते अणियट्टी ३, xxx ॥ -स्था.सू. २४७, भग. सू. ८०२, औप. सू. २० ।। वृ० x x x सुहुमकिरिएत्ति निर्वाणगमनकाले केवलिनो निरुद्धमनोवाग्योगस्यार्द्धनिरुद्धकाययोगस्यैतद्, अतः सूक्ष्मा क्रिया कायिकी उच्छ्वासादिका यस्मिंस्तत्तथा, न निवर्त्तते-न व्यावर्त्तत इत्येवंशीलमनिवर्ति प्रवर्द्धमानतरपरिणामादिति, भणितं च - [ध्यानशतके] “निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियहि तइयं तणुकायकिरियस्स ।। ८१ ।।" इति तृतीयः, xxx ।। -स्थानाङ्गसूत्रवृत्तौ ।। B मू. परे केवलिनः ।। ९-४१ ।। वृ. - xxx तत्र सूक्ष्मक्रियमप्रतिपातीति । सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियम् । तञ्च योगनिरोधकाले भवति । वेद्य-नाम-गोत्रकर्मणां भवधारणायुष्कादधिकानां समुद्धातसामर्थ्यादचिन्त्यैश्वर्यशक्तियोगादायुष्कसमीकृतानां मनो-वाक्-काययोगपरिणतस्यौदारिकशरीरत्रिभागोनस्थस्य केवलिनः संज्ञिपञ्चेन्द्रियपर्याप्तकमनोऽसङ्ख्येयगुणकहीनं सूक्ष्मयोगित्वमप्रतिपात्यच्युतस्वभावम् आव्युपरतक्रियानिवृत्तिध्यानावाप्तेः। उक्तं चअप्रतिपाति ध्यायन्, कश्चित् सूक्ष्मक्रिय विहत्यन्ते । आयुःसमीक्रियाऽर्थं, त्रयस्य गच्छेत् समुद्धातम् ।। १ ।। आर्द्राम्बराशुशोषव-दात्मविसारणविशुष्कसमकर्मा । समयाष्टकेन देहे, स्थित्वा योगात् क्रमाद् द्वन्द्वे ।। २ ।। तथाऽन्य आहआयुषि समाप्यमाने, शेषाणां कर्मणां यदि समाप्तिः । न स्यात् स्थितिवैषम्याद्, गच्छति स ततः समुद्धातम् ।। १ ।। स्थित्या च बन्धनेन, च समीक्रियार्थं हि कर्मणां तेषाम् । अन्तर्मुहूर्तशेषे, तदायुषि समुज्जिघांसति सः ।। २ ।।आर्द्र विरल्लितं सद्, वस्त्रं मक्ष्वेव ननु विनिर्वाति । संवेष्टितं तु न तथा, तथा हि कर्मापि मूर्तत्वात् ।। ३ ।। स्नेहक्षयसाम्यात् (स्थितिबन्धनहेतुर्हि) स्नेहः स च हीयते समुद्धातात् । क्षीणस्नेहं शटति हि भवति तदल्पस्थिति च शेषम् ।। ४ ।। आयुष्कस्यापि विरल्लितस्य, न हास्यते स्थितिः कस्मात् । इति वा चोद्यं चरम-शरीरोऽनुपक्रमायुर्यत् कङ्कटुकवत् ।। ५ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302