Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
केवलिनि ध्यानसिद्धिः
जह० गाहा ।। यथा छद्मस्थस्य मनः, किम् ? ध्यानं भण्यते सुनिश्चलं सत्, तथा तेनैव प्रकारेण योगत्वाव्यभिचारात्केवलिनः कायः सुनिश्चलो भण्यते ध्यानमिति गाथार्थः ।। ८४ ।
१ A
आह - चतुर्थे निरुद्धत्वादसावपि न भवति, तथाविधभावेऽपि च सर्वभावप्रसङ्गः, तत्र का वार्तेति ? उच्यते -
B
१ A
जंह छउमत्थस्स मणो झाणं भण्णइ सुनिच्चलो तो । तह केवलिणो काओ सुनिच्चलो भन्नए झाणं ।।८४ ।।
वृ०
अव० ननु शुक्लध्यानोपरितनभेदद्वये मनो नास्त्येव, अमनस्कत्वात् केवलिनः, ध्यानं च मनः स्थैर्यम्, तदेतत् कथम् ? इत्याह
छद्मस्थितस्य यद्वन्मनः स्थिरं ध्यानमुच्यते तज्ज्ञैः ।
निश्चलमङ्गं तद्वत् केवलिनां कीर्तितं ध्यानम् ।। ११ ।।
यथा छद्मस्थस्य मनः स्थिरं सत् ध्यानं भण्यते, तथा केवलिनोऽपि सुनिश्चलः कायो योगत्वाव्यभिचाराद् ध्यानशब्दाभिधेयो भवति ।। ११ ।।
पुव्यप्पओगओ चिय कम्मविणिज्जरणहेतो यावि । सद्दत्थबहुत्ताओ तह जिणचंदागमाओ य ।। ८५ ।।
वृ०
अव० अथ यदेव सूक्ष्मक्रियस्य वपुषः स्थैर्यं भवति, तदेव केवलिनां ध्यानं स्यादित्याहछद्मस्थस्य यथा ध्यानं, मनसः स्थैर्यमुच्यते ।
वृ०
१४९
तथैव वपुषः स्थैर्यं ध्यानं केवलिनो भवेत् ।। १०१ ।।
यथा येन प्रकारेण छद्मस्थस्य योगिनो मनसः स्थैर्यं ध्यानमुच्यते, तथैव तेन प्रकारेण वपुषः स्थैर्यं शरीरस्य निश्चलत्वं केवलिनो ध्यानं भवतीति ।। १०१ ।।
- गुणस्थानकक्रमारोहे ।। अव० ननु चतुर्थे शुक्लध्याने काययोगस्य निरुद्धत्वाद् असावपि न भवति, तथापि भावेऽतिप्रसङ्गः,
तत्र कथं ध्यानशब्दवाच्यता ? इत्याह
- योगशास्त्रे प्र. ११ ।।
Jain Education International 2010_02
पूर्वाभ्यासाज्जीवोपयोगतः कर्मजरणहेतोर्वा ।
शब्दार्थ बहुत्वाद्वा जिनवचनाद्वाऽप्ययोगिनो ध्यानम् ।। १२ ।।
xxx यथा कुलालचक्रं भ्रमणनिमित्तदण्डादेरभावेऽपि पूर्वाभ्यासाद् भ्रमति, तथा मनःप्रभृतिसर्वयोगो-परमेऽप्ययोगिनो ध्यानं भवति ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302