Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 287
________________ १५४ zaza zašaèáèáèáèäèâža देह० गाहा ।। देहविविक्तं पश्यत्यात्मानं तथा च सर्वसंयोगानिति विवेकलिङ्गम् । देहोपधिव्युत्सर्गं निःसङ्गः सर्वथा करोति व्युत्सर्गलिङ्गमिति गाथार्थः ।। ९२ ।। गतं लिङ्गद्वारम्, साम्प्रतं फलद्वारमुच्यते, इह च लाघवार्थं प्रथमोपन्यस्तं धर्मफलमभिधाय शुक्लध्यानफलमाह, धर्मफलानामेव शुद्धतराणामाद्यशुक्लद्वयफलत्वात्, अत आह - होंति सुहासव संवर - विणिज्जराऽमरसुहाई विउलाई । झाणवरस्स फलाई सुहाणुबंधीणि धम्मस्सं । ९३ ।। ध्यानशतकम्, गाथा - ९३ a होंति० गाहा ।। भवन्ति शुभाश्रव-संवर विनिर्जराऽमरसुखानि शुभाश्रवः पुण्याश्रवः संवरः अशुभकर्मागमनिरोधो विनिर्जरा कर्मक्षयः अमरसुखानि देवसुखानि, एतानि च दीर्घस्थिति-विशुद्ध्युपपाताभ्यां विपुलानि विस्तीर्णानि, ध्यानवरस्य ध्यानप्रधानस्य फलानि शुभानुबन्धीनि सुकुलप्रत्यायाति - पुनर्बोधिलाभ-भोग-प्रव्रज्या-केवल-शैलेश्यपवर्गानुबन्धीनि धर्मस्य ध्यानस्येति गाथार्थः । । ९३ ।। B लक्खणाणि वि चत्तारि - विवेगे, वियोसग्गे, अव्वहे असंमोहे, विवेगे सव्वसंजोगविवेगं पेक्खति, वियोसग्गे सव्वोवहिमादिविउस्सग्गं करेति, अव्वधे विण्णाणसंपण्णो ण बिहेति ण चलति, असंमोहे सुसहेवि अत्थे न संमुज्झति । - आवश्यकचूर्णो ।। C अवधादुपसर्गेभ्यः, कम्पते न बिभेति च । असम्मोहान्न सूक्ष्माऽर्थे, मायास्वपि न मुह्यति ।। ८४ ।। विवेकात् सर्वसंयोगा-द्भिन्नमात्मानमीक्षते । देहोपकरणाऽसङ्गो व्युत्सर्गाज्जायते मुनिः ।। ८५ ।। - अध्यात्मसारे, अ. १६ ।। A जिनवरवचनगुणगणं सञ्चिन्तयतो वधाद्यापायांश्च । कर्मविपाकान् विविधान् संस्थानविधीननेकांश्च ।। २५० ।। नित्योद्विग्नस्यैवं क्षमाप्रधानस्य निरभिमानस्य । धूतमायाकलिमलनिर्मलस्य जितसर्वतृष्णस्य ।। २५१ ।। तुल्यारण्यकुलाकुलविविक्तबन्धुजनशत्रुवर्गस्य । समवासीचन्दनकल्पनप्रदेहादिदेहस्य ।। २५२ ।। आत्मारामस्य सतः समतृणमणिमुक्तलोष्ठकनकस्य । स्वाध्यायध्यानपरायणस्य दृढमप्रमत्तस्य ।। २५३ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302