Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 280
________________ शुक्लध्याने योगसंख्यानिरूपणम् १४७ इत्थं चतुर्विधं ध्यानमभिधायाधुनैतत्प्रतिबद्धमेव वक्तव्यताशेषमभिधित्सुराह - पंढम जोगे जोगेसु वा मयं बितियमेगजोगंमि । तइयं च कायजोगे सुक्कमजोगंमि य चउत्थं ।।८३।। व्यवच्छिन्नक्रियं तु चतुर्थं शुक्लम् । तच्च शैलेशीगतस्य केवलिनः सर्वात्मनैव निरुद्धसकलयोगस्य शैलेशीवनिष्पकम्पस्य भवति । एवंविधयोः पूर्वोपवर्णितध्यानद्वयापेक्षया वरयोः प्रधानतमयोर्धर्मशुक्लध्यानयोर्मनसि यः सङ्क्रमः सा विमुक्ताशेषकुविकल्पकल्पनाजालस्यात्मारामस्य मुनेर्मनोगुप्तिरिति ।।४८४।। -हितोपदेशवृत्तौ ।। [२] A जोगे जोगेसु वा पढम, बीयं योगंमि कण्हुयी । ततियं कायिके जोगे, चउत्थं च अजोगिणो ।। ५ ।। -आवश्यकचूर्णा ।। B अव. अधुना पूर्वोक्तस्वामिन एव विशेष्य कथ्यन्ते - मू. तत् त्र्येककाययोगायोगानाम् ।।९-४३ ।। भा० तदेव चतुर्विधं शुक्लध्यानं त्रियोगस्यान्यतमयोगस्य काययोगस्यायोगस्य च यथासङ्ख्यं भवति । तत्र त्रियोगानां पृथक्त्ववितर्कम्, एकान्यतमकयोगानामेकत्वावितर्कम्, काययोगानां सूक्ष्मक्रियमप्रतिपाति, अयोगानां व्युपरतक्रियानिवर्तीति ।। ४३ ।। तदेतञ्चतुर्विधं शुक्लध्यानं प्रथमद्वितीयोत्तमसंहननवतो भवति । तत्राद्यं पृथक्त्ववितर्कं त्रियोगस्य भवति, मनो-वाक्-काययोगव्यापारवत इत्यर्थः । एकान्यतमयोगानामिति । अन्यतमैकयोगानामेकत्ववितकमेकोऽन्यतमः कायादीनां योगो यस्य ध्यायिनो व्याप्रियते, कदाचिन्मनोयोगः कदाचिद् वाग्योगः कदाचित् काययोग इति । काययोगानामिति कायैकयोगभाजामेव सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानमिति । निरुद्धयोगद्वयावस्थानां कायव्यापारवतां सूक्ष्मक्रियं भवति, न च प्रतिपतति । अयोगानामिति शैलेश्यवस्थानां हूस्वाक्षरपञ्चकोच्चारणसमकालानां मनो-वाक्-काययोगत्रयरहितानां व्युपरतक्रियमनिवर्ति ध्यानं भवति । उक्तं च“यदर्थव्यञ्जने काय-वचसी च पृथक्त्वतः । मनः सङ्क्रमयत्यात्मा, स विचारोऽभिधीयते ।। १ ।। सङ्क्रान्तिरर्थादर्थं यद्, व्यज्जनाद् व्यञ्जनं तथा । योगाञ्च योगमित्येष विचार इति वा मतः ।। २ ।। अर्थादि च पृथक्त्वेन, यद् वितर्कयतीव हि । ध्यानमुक्तं समासेन, तत् पृथक्त्वविचारवत् ।। ३ ।। अविकम्प्यमनस्त्वेन, योगसङ्क्रान्तिनिःस्पृहम् । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302