Book Title: Dhyanashatakam Part 1
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
ध्यानशतकम्, गाथा - ८२ ea च संक्रामन् पृथक्त्ववितर्कवीचारं शुक्लतरलेश्यमुपशमक-क्षपकगुणस्थानभूमिकमन्तर्मुहूर्तार्थं क्षायोपशमिकभूमिकं प्रायः पूर्वधरनिषेव्यमाश्रितार्थ- व्यञ्जनयोगसंक्रमणं श्रेणिभेदात् स्वर्गापवर्गफलप्रदमाद्यं शुक्लध्यानमवलम्बते त निर्जरात्मकम् आत्मस्थितकर्मक्षयकारणत्वात् तस्याः “ तपसा निर्जरा च " [ तत्त्वार्थ० ९-३] इति वचनाद् ध्यानस्य चान्तरोत्कृष्टतपोरूपत्वाद् जीवाजीवाभ्यां कथंचिदसावभिन्ना द्व्यङ्गुलवियोगवत् वियुक्तात्मनो वियोगस्य कथंचिद् अभेदात् एकान्तवादे तु पूर्ववत् पश्चादपि अवियोगः अतद्धर्मत्वात् वियोगे वा पूर्वमपि तत्स्वभावत्वाद् अयुक्तस्य वियोगाभाव एव न हि बन्धाभावे तद्विनाशः संभवी तस्य वस्तुधर्मत्वात् न हि अङ्गुल्योः संयोगाभावे तद्वियोग इति व्यवहारः । तस्माद् निर्जराया अपि एकान्तवादे अनुपपत्तिः । एकत्वेन वितर्को यस्मिन् तद् एकत्ववितर्कम् विगतार्थ-व्यञ्जन- योगसंक्रमत्वाद् अवीचारं द्वितीयं शुक्लध्यानम् । तथाहिएकपरमाणौ एकमेव पर्यायमालम्ब्यत्वेन आदाय अन्यतरैकयोगबलाधानमाश्रितव्यतिरिक्ताशेषार्थ-व्यञ्जनयोगसंक्रमविषयचिन्ताविक्षेपरहितं बहुतरकर्मनिर्जरारूपं निश्शेषमोहनीयक्षयानन्तरं युगपद्भाविघातिकर्मत्रयध्वंसनसमर्थमकषायच्छद्मस्थ- वीतरागगुणस्थानभूमिकं क्षपको द्वितीयं शुक्लध्यानमासादयति । प्रायः पूर्वविदेव तदनन्तरं ध्यानान्तरे वर्तमानः क्षायिकज्ञान-दर्शन- चारित्र-वीर्यातिशयसंपत्समन्वितो भगवान् केवली जायत इति स च अत्यन्तापुनर्भवसंपदङ्गनासमालिङ्गिततनुः कृतकृत्यः अचिन्त्यज्ञानाद्यैश्वर्यमाहात्म्यातिशयपरमभक्तिनम्रामरेश्वरादिवन्द्यचरणः अन्तर्मुहूर्तं देशोनां वा पूर्वकोटिं भवोपग्राहिकर्मवशाद् विहरन् यदा अन्तर्मुहूर्तपरिशेषायुष्कस्तत्तुल्यस्थितिनामगोत्र वेदनीयश्च भवति तदा मनो-वाग- बादरकाययोगं निरुध्य सूक्ष्मकाययोगोपगः सूक्ष्मक्रियाऽप्रतिपाति शुक्लध्यानं तृतीयमध्यास्ते, यदा पुनरन्तर्मुहूर्तस्थितिकायुष्ककर्माधिकतरस्थितिशेषकर्मत्रयो भवत्यसौ तदा आयुष्ककर्मस्थिति समानस्थितिशेषकर्मसंपादनार्थं समुद्धातमाश्रित्य दण्ड- कपाट-मन्थरलोकपूरणानि स्वात्मप्रदेशविसरणतश्चतुर्भिः समयैर्विधाय तावद्भिरेव तैः पुनस्तान् उपसंहत्य स्वप्रदेशविश (स) रणसमीकृत भवोपग्राहिकर्मा स्वशरीरपरिमाणो भूत्वा ततः तृतीयं शुक्लध्यानभेदं परिसमापय्य पुनश्चतुर्थं शुक्लध्यानमारभते तत् पुनर्विगतप्राणा-पानप्रचाराशेषकाय वाग्-मनोयोगसर्वदेशपरिस्पन्दत्वाद् विगतक्रियानिवति इत्युच्यते तत्र च सर्वबन्धास्रवनिरोधः अशेषकर्मपरिक्षयसामर्थ्योपपत्तेः तदेव च निश्शेषभवदुःखविटपिदावानलकल्पं साक्षाद् मोक्षकारणम् तद्ध्यानवांश्च अयोगिकेवली निःशेषितमलकलङ्कोऽवाप्तशुद्धनिजस्वभाव ऊर्ध्वगतिपरिणामस्वाभाव्यात् निवातप्रदेशप्रदीपशिखावद् ऊर्ध्वं गच्छति एकसमयेन आलोकान्तात् विनिर्मुक्ताशेषबन्धनस्य प्राप्तनिजस्वरूपस्य आत्मनो लोकान्ते अवस्थानं मोक्षः “बन्धवियोगो मोक्षः " [ ] इति वचनात् । - सम्मतिवृत्तौ, का. ३/६३ ।।
C मू०
परिचत्तअट्टरुद्दे... ।।४८४ ।
वृ०
१४६
हे
x x x शुक्लध्यानमपि चतुर्विधम्-पृथक्त्ववितर्कसविचारम् । सह विचारेण वर्त्तते इति सविचारम् । विचारोऽर्थव्यञ्जनयोगसङ्क्रमः । अर्थो द्रव्यम्, व्यञ्जनं शब्दः, योगो मनःप्रभृति । एतद्भेदेन सविचारमर्थाद् व्यञ्जनं सङ्क्रामतीति प्रथमं शुक्लम् ।
एकत्ववितर्कमविचारम् । एकत्वेनाभेदेन वितर्कोऽर्थरूपो व्यञ्जनरूपो वा यस्य तत्तथा । तदेवंविधं द्वितीयं शुक्लम् ।
सूक्ष्मक्रियानिवृत्ति तृतीयं शुक्लम् । तच केवलिनो निर्वाणगमनकाले मनोवाग्योगद्वये निरुद्धे सत्यर्द्धनिरुद्धकाययोगस्य भवति । काययोगस्तूच्छवासनिश्वासादिलक्षणः सूक्ष्म एवास्य विज्ञेयः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302